________________
औपपातिकम्
रोषभयाभिलाषादिभावानां युगपदसकृत्करणम्, आदिशब्दान्मनोदोषान्तरपरिग्रहः, तैर्वियुक्तं यत्तथा तद्भावस्तत्त्वं २९||||
श्रीवीरव० अनेकजातिसंश्रयाद्विचित्रत्वम् , इह जातयो वर्णनीयवस्तुस्वरूपवर्णनानि ३० आहितविशेषत्वं-वचनान्तरापेक्षया दौकितविशेषता ३१ साकारत्व-विच्छिन्नवर्णपदवाक्यत्वेनाकारप्राप्तत्वं ३२ सत्त्वपरिगृहीतत्वं-साहसोपेतता ३३ अपरिखेदितत्वम्-अनायाससम्भवः ३४ अव्युच्छेदित्वं-विवक्षितार्थसम्यसिद्धिं यावद् अव्यवच्छिन्नवचनप्रमेयतेति ३५ ॥ अथ प्रकृतवाचना-'आगासगएण'ति आकाशवर्तिना 'चक्रेण धर्मचक्रेण 'आगासगएणं छत्तेणं'ति छत्रत्रयेण 'आगासियाहिति | आकाशम्-अम्बरमिताभ्यां प्राप्ताभ्यां आकर्षिताभ्यां वा-आकृष्टाभ्यामुत्पाटिताभ्यामित्यर्थः, 'चामराहिंति चामराभ्यांप्रकीर्णकाभ्यां, प्राकृतत्वाच्च लिङ्गव्यत्ययः, लक्षित इति सर्वत्र गम्यम् । 'आगासफलियामएणं'ति आकाशतुल्यं स्वच्छ-| तया यत् स्फटिक तन्मयेन, सपादपीठेन सिंहासनेनेति व्यक्तं। 'धम्मज्झएणं'ति धर्मचक्रवर्तित्वसंसूचकेन केतुना-महेन्द्रध्वजेनेत्यर्थः, 'पुरओत्ति अग्रतः 'पकढिजमाणेणं ति देवैः प्रकृष्यमाणेनेति, 'सद्धिं' सह 'संपरिवुडे'त्ति सम्यक परिकरितः-समन्ताद्वेष्टित इत्यर्थः । 'पुवाणुपुचिंति पूर्वानुपूा न पश्चानुपूर्व्या नानानुपूर्व्या वेत्यर्थः, क्रमेणेति हृदयं, 'चरन्' सञ्चरन्, एतदेवाह-'गामाणुग्गामं दूइज्जमाणे'त्ति ग्रामश्च प्रतीतोऽनुग्रामश्च-विवक्षितग्रामानन्तरो ग्रामो ग्रामानुग्रामंत'द्रवन्' गच्छन् ,एकस्माद्धामादनन्तरं ग्राममनुल्लङ्घयन्नित्यर्थः, अनेनाप्रतिबद्धविहारमाह,तत्राप्यौत्सुक्याभावमिति। |'सुहंसुहेणं विहरमाणे'त्ति अत एव सुखंसुखेन-शरीरखेदाभावेन संयमबाधाभावेन च 'विहरन्' स्थानात् स्थानान्तरं गच्छन् ग्रामादिषु वा तिष्ठन् 'बहिय'त्ति बहिस्तात् 'उवणगरग्गामति नगरस्य समीपमुपनगरं तत्र ग्राम उपनगरग्रामस्तमुपागतः॥१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org