SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ AAAAAA हितत्वात् । 'जणवयपाले'त्ति तद्रक्षकत्वात् । 'जणवयपुरोहिए'त्ति जनपदस्य शान्तिकरत्वात् । 'सेउकरे'त्ति मार्गदर्शक | इत्यर्थः । 'केउकरें'त्ति अद्भुतकार्यकारित्वेन चिह्नकारी । 'गरपवरे'त्ति नराः प्रवरा अस्येतिकृत्वा । 'पुरिसवरे'त्ति पुरुषाणां । मध्ये प्रधानत्वात् । 'पुरिससीहे'त्ति क्रूरत्वात् । 'पुरिसवग्घेत्ति रोषे सति रौद्ररूपत्वात् । 'पुरिसासीविसे त्ति पुरुषश्चासा-2 वाशीविषश्च पुरुषाशीविषः, आशीविषश्च सर्पः, कोपसाफल्यकरणसामर्थ्यात् । 'पुरिसपुंडरीए'त्ति सुखार्थिनां सेव्यत्वात् ,8 पुण्डरीकं च सितप । 'पुरिसवरगंधहत्थी' प्रतिराजगजभञ्जकत्वात् । अडे'त्ति समृद्धः 'दित्ते'त्ति दृप्तो दर्पवान् 'वित्तेत्ति प्रसिद्धः । 'विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे'त्ति विस्तीर्णानि-विस्तारवन्ति विपुलानि-प्रभूतानि भवनश| यनासनानि प्रतीतानि यस्य स तथा, यानवाहनानि-रथाश्चादीनि, आकीर्णानि-गुणाकीर्णानि यस्य स तथा, ततः कर्म|धारयः, अथवा विस्तीर्णविपुलभवनानि शयनासनयानवाहनाकीर्णानि यस्य स तथा । 'बहुधणबहुजायरूवरयते' बहु-प्रभूतं | धनं-गणिमादिकं बहुनी च जातरूपरजते-सुवर्णरौप्ये यस्य स तथा । 'आओगपओगसंपउत्ते' आयोगस्य-अर्थलाभस्य प्रयोगा-उपायाः सम्प्रयुक्ताः-व्यापारिता येन, तेषु वा सम्प्रयुक्तो-व्यापृतो यः स तथा । 'विच्छड्डियपउरभत्तपाणे' | विच्छर्दिते-त्यक्ते बहुजनभोजनदानेनाविशिष्टोच्छिष्टसम्भवात् सञ्जातविच्छः वा नानाविधे प्रचुरे भक्तपाने-भोजन|पानीये यस्य स तथा । 'बहुदासीदासगोमहिसगवेलगप्पभूए' बहवो दासीदासा गोमहिषगवेलकाश्च प्रभूता यस्य स तथा, |गवेलका-उरभ्राः। 'पडिपुण्णजंतकोसकोट्ठागाराउधागारे' प्रतिपूर्णानि यन्त्राणि च पाषाणक्षेपयन्त्रादीनि कोशो-भाण्डा| गारः कोष्ठागारश्च-धान्यगृहं आयुधागारश्च-प्रहरणशाला यस्य स तथा । 'बलवं'ति प्रभूतसैन्यः। 'दुब्बलपच्चामित्ते' Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy