________________
मतिलघूकृतोऽपि सर्वाकाशे न मायाद्, एतदेवाह-'सबागासे न माएजत्ति । अथ सिद्धसुखस्यानुपमतां दृष्टान्तेनाह-18 'जह' गाहा, पूर्वार्ध व्यक्तं,'न चएइ'त्ति न शक्नोति परिकथयितुं नगरगुणानरण्यमागतोऽरण्यवासिम्लेच्छेभ्यः, कुत इत्याह-द।
उपमायां त्वत्र नगरगुणेष्वरण्ये वाऽसत्यामिति, कथानकं पुनरेवम्-म्लेच्छः कोऽपि महारण्ये, वसति स्म निराकुलः। ४ अन्यदा तत्र भूपालो, दुष्टाश्वेन प्रवेशितः॥१॥ म्लेच्छेनासौ नृपो दृष्टः, सत्कृतश्च यथोचितम् । प्रापितश्च निजं देशं, ४
सोऽपि राज्ञा निजं पुरम् ॥ २॥ ममायमुपकारीति, कृतो राज्ञाऽतिगौरवात् । विशिष्टभोगभूतीनां, भाजनं जनपूजितः ॥३॥ ततः प्रासादशृङ्गेषु, रम्येषु काननेषु च । वृतो विलासिनीसाथै ते भोगसुखान्यसौ ॥ ४ ॥ अन्यदा प्रावृषः प्राप्तौ, मेघाडम्बरमण्डितम् । व्योम दृष्ट्वा वनिं श्रुत्वा, मेघानां स मनोहरम् ॥५॥ जातोत्कण्ठो दृढं जातोऽरण्यवासगमं प्रति । विसर्जितश्च राज्ञाऽपि, प्राप्तोऽरण्यमसौ ततः॥६॥ पृच्छन्त्यरण्यवासास्तं, नगरं तात ! कीदृशम् । स स्वभावान् पुरः सर्वान् , जानात्येव हि केवलम् ॥७॥ न शशाक तका (तरां) तेषां, गदितुं स कृतोद्यमः । वने वनेचराणां हि, नास्ति सिद्धोपमा यतः(तथा)॥८॥ १६ ॥ अथ दार्शन्तिकमाह-'इय' गाहा, इति' एवम्-अरण्ये नगरगुणा |इवेत्यर्थः, सिद्धानां सौख्यमनुपमं वर्तते, किमित्याह-यतो नास्ति तस्यौपम्यं, तथापि बालजनप्रतिपत्तये किञ्चिद्विशेषेणाह'एत्तोत्ति आर्षत्वादस्य-सिद्धिसुखस्य इतो वाऽनन्तरम् औपम्यम्-उपमानम् 'इदं वक्ष्यमाणं शृणुत वक्ष्ये इति ॥ १७॥ 'जह'गाहा, 'यथे'त्युदाहरणोपन्यासार्थः 'सर्वकामगुणित' सञ्जातसमस्तकमनीयगुणं, शेष व्यक्तम्, इह च रसनेन्द्रियमेवाधिकृत्येष्टविषयप्राप्त्या औत्सुक्यनिवृत्त्या सुखप्रदर्शनं सकलेन्द्रियार्थावाप्याऽशेषौत्सुक्यनिवृत्त्युपलक्षणार्थम्, अन्यथा
Jain Education Inter nal
For Personal & Private Use Only
www.janelibrary.org