________________
औपपातिकम्
॥११८॥
नन्तगुणवृद्ध्या निरतिशयनिष्ठां गतः, ततश्चासावत्यन्तोपमातीतै कान्ति कौत्सुक्य विनिवृत्तिरूपः स्तिमिततममहोदधिकल्पश्चरमाह्लाद एव सदा सिद्धानां भवति, तस्माच्चारात्प्रथमाच्चोर्ध्वमपान्तरालवर्तिनो ये तारतम्येनाहादविशेषास्ते सर्वाकाशप्रदेशराशेरपि भूयांसो भवन्तीत्यतः किलोक्तं- 'सद्यागासे ण माएज'त्ति, अन्यथा प्रतिनियतदेशावस्थितिः कथं तेषामिति सूरयोऽभिदधतीति ॥ १५ ॥ अस्य च वृद्धोक्तस्याधिकृतगाथाविवरणस्यायं भावार्थ:- य एते सुखभेदास्ते सिद्धमुखपर्यायतया व्यपदिष्टाः, तदपेक्षया तस्य क्रमेणोत्कृष्यमाणस्यानन्ततमस्थानवर्तित्वेनोपचारात्, तद्राशिव किलासद्भाव स्थापनया सहस्रं समयराशिस्तु शतं सहस्रं च शतेन गुणितं जातं लक्षं, गुणनं च कृतं सर्वसमयसम्बन्धिनां सुखपर्यायाणां मीलनार्थ, तथाऽनन्तराशिः किल दश, तद्वर्गश्च शतं तेनापवर्तितं लक्षं जातं सहस्रमेव, अतः पूज्यैरुक्तं 'समीभूत एवे 'ति भावार्थ इति, यच्चेह सुखराशेर्गुणनमपवर्तनं च तदेवं सम्भावयामः - यत्र किलानन्तराशिना गुणितेऽपि सति अनन्तवर्गेणानन्तानन्तकरूपेणातीव महास्वरूपेणापवर्तिते किञ्चिदवशिष्यते, स राशिरतिमहान्, ततश्च सिद्धसुखराशिर्महानिति बुद्धिजननार्थं शिष्यस्य तस्यैव वा गणितमार्गे व्युत्पत्तिकरणार्थमिति । अन्ये पुनरिमां गाथामेवं व्याख्यान्ति - सिद्धसुखपर्यायराशिः नभः प्रदेशाग्रगुणितनभः प्रदेशाग्रप्रमाणः, तत्परिमाणत्वात्सिद्धसुखपर्यायाणां सर्वाद्धापिण्डितः - सर्वसमयसम्बन्धी सङ्कलितः सन् स चानन्तैः अनन्तशो इत्यर्थः, वगैः- वर्गमूलैर्भक्तः - अपवर्तितः अत्यन्तं लघूकृत इत्यर्थः, यथा किल सर्वसमयसम्बन्धी सिद्धसुखराशिः पञ्चषष्टिः सहस्राणि पञ्च शतानि षटूत्रिंशच्चेति ( ६५५३६ ), स च वर्गेणापवतितः सन् जाते द्वे शते षट्पञ्चाशदधिके ( २५६ ) सोऽपि स्ववर्गापवर्तितो जाताः षोडश ततश्चत्वारः ततो द्वावित्येव
1
Jain Education International
For Personal & Private Use Only
सिद्धस्व०
॥११८॥
www.jainelibrary.org