SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ न्ति निष्ठितार्था भवन्ति ॥२॥ किञ्च-'जं संठाणं' गाहा व्यक्ता, नवरं प्रदेशघनमिति त्रिभागेन रन्ध्रपूरणादिति, 'तहिं' ति सिद्धिक्षेत्रे 'तस्स'त्ति सिद्धस्येति ॥ ३ ॥ तथा चाह-'दीहं वागाहा, दीर्घ वा-पञ्चधनुःशतमानं इस्वं वा-हस्तद्वयमानं, वाशब्दान्मध्यमवा, यच्चरमभवे भवेत्संस्थानं 'ततः तस्मात् संस्थानात् त्रिभागहीना त्रिभागेन शुषिरपूरणात् सिद्धानामवगाहना-अवगाहन्ते-अस्यामवस्थायामिति अवगाहना स्वावस्थैवेति भावः, भणिता-उक्ता जिनैरिति ॥ ४ ॥ अथावगाहनामेवोत्कृष्टादिभेदत आह-'तिण्णि सये'त्यादि, इयं च पञ्चधनुःशतमानानां 'चत्तारि येत्यादि तु सप्तहस्तानाम् 'एगा ये' | त्यादि द्विहस्तमानानामिति । इयं च त्रिविधाऽप्यूर्ध्वमानमाश्रित्यान्यथा सप्तहस्तमानानां च उपविष्टानां सिद्ध्यतामन्यथाऽपि स्यादिति । आक्षेपपरिहारौ पुनरेवमत्र-ननु नाभिकुलकरः पञ्चविंशत्यधिकपञ्चधनुःशतमानः प्रतीत एव, तद्भार्याऽपि मरु|देवी तत्प्रमाणैव, उच्चत्तं चेव कुलगरेहि सम मिति वचनात्, अतस्तदवगाहना उत्कृष्टावगहनातोऽधिकतरा प्राप्नोतीति कथं न विरोधः?, अत्रोच्यते, यद्यप्युच्चत्वं कुलकरतुल्यं तद्योषितामित्युक्तं, तथापि प्रायिकत्वादस्य स्त्रीणां च प्रायेण पुम्भ्यो | लघुतरत्वात् पश्चैव धनुःशतान्यसावभवत् , वृद्धकाले वा सङ्कोचात् पञ्चधनुःशतमाना सा अभवद्, उपविष्टा वाऽसौ सिद्धेति न विरोधः, अथवा बाहुल्यापेक्षमिदमुत्कृष्टावगाहनामानं, मरुदेवी त्वाश्चर्यकल्पेत्येवमपि न विरोधः, ननु जघन्यतः सप्तहस्तोच्छ्रितानामेव सिद्धिः प्रागुक्ता, तत्कथं जघन्यावगाहना अष्टाङ्गलाधिकहस्तप्रमाणा भवतीति ?, अत्रोच्यते, | सप्तहस्तोच्छ्रितेषु सिद्धिरिति तीर्थङ्करापेक्षं, तदन्ये तु द्विहस्ता अपि कूर्मपुत्रादयः सिद्धाः अतस्तेषां जघन्याऽवसेया, अन्ये १ उच्चत्वमेव कुलकरैः समं. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy