________________
।
दप्पणा ८, तत्र श्रीवत्सः-तीर्थकरहृदयावयवविशेषाकारो, नन्द्यावर्तः-प्रतिदिनवकोणः स्वस्तिकविशेषो रूढिगम्यो, वर्द्ध|मानक-शरावं, पुरुषारूढः पुरुष इत्यन्ये, भद्रासनं-सिंहासनं, दर्पणः-आदर्शः, शेषाणि प्रतीतानि । 'सवरयणामया' 'अच्छाः' स्वच्छाः आकाशस्फटिकवत् , 'सण्हा' श्लक्ष्णाः-श्लक्ष्णपुद्गलनिवृत्तत्वात् , 'मण्हा' मसृणाः, 'घठा' घृष्टा इव घृष्टा खरशानया प्रतिमेव 'महा' मृष्टाः सुकुमारशानया प्रतिमेव प्रमाजेनिकयेव वा शोधिताः, अत एव 'निरया' नीरजसः रजोरहिताः 'निर्मलाः' कठिनमलरहिताः 'निप्पंका' आर्द्रमलरहिताः 'निकंकडच्छाया' निरावरणदीप्तयः 'सप्पहा' सप्रभाः 'समिरीया' सकिरणाः 'सउज्जोया' प्रत्यासन्नवस्तुद्योतकाः 'पासादीया ४' । 'तस्स णं असोगवरपायवस्स उवरि बहवे 'किण्हचामरज्झया' कृष्णवर्णचामरयुक्तध्वजाः 'नीलचामरज्झया लोहियचामरज्झया सुकिलचामरज्झया हालिद्दचामरज्झया अच्छा सण्हा' 'रुप्पपट्टा' रौप्यमयपताकापटाः 'वइरामयदंडा' वज्रदण्डाः 'जलयामलगंधिया' पद्मवत् निर्दो| पगन्धाः 'सुरम्मा पासादीया 'तस्स णं असोगवरपायवस्स' 'उवरि' उपरिष्टात् 'वह' 'छत्ताइच्छत्ता' उपर्युपरिस्थिताऽऽतपत्राणि 'पडागाइपडाया' पताकोपरिस्थितपताकाः 'घण्टाजुयला चामरजुयला' 'उप्पलहत्थगा' नीलोत्पलकलापाः 'पउ| महत्थगा' पद्मानि रविबोध्यानि 'कुमुयहत्थगा' कुमुदानि चन्द्रबोध्यानीति, 'कुसुमहत्थय'त्ति पाठान्तरं 'नलिणहत्थगा सुभगहत्थगा सोगंधियहत्थगा' नलिनादयः पद्मविशेषा रूढिगम्याः, 'पुंडरीयहत्थया' पुण्डरीकाणि-सितपद्मानि 'महापुंडरीयहत्था' महापुण्डरीकाणि तान्येव महान्ति 'सयपत्तहत्था सहस्सपत्तहत्था सबरयणामया अच्छा जाव पडिरूवा ४॥४॥
तस्स णं असोगवरपायवस्स हेहा ईसिं खंधसमल्लीणे एत्थ णं महं एक पुढविसिलापट्टए पण्णत्ते, विक्खं
dain Education International
For Personal & Private Use Only
www.janelibrary.org