________________
गद्धि, अनुनादतो मनोयाटसंखगुणविहा अजोगयं पा
प्तस्य, तदन्यस्य मनोलब्धिमतोऽपि मनसोऽभाव एवेति पर्याप्तस्येत्युक्तं, स च मध्यमादिमनोयोगोऽपि स्यादित्याह'जहण्णजोगिस्स'त्ति जघन्यमनोयोगवतः 'हेहत्ति अधो यो मनोयोग इति गम्यते, जघन्यमनोयोगसमानो यो न भवतीत्यर्थः, मनोयोगश्च-मनोद्रव्याणि तद्व्यापारश्चेति, जघन्यमनोयोगाधोभागवर्तित्वमेव दर्शयन्नाह-'असंखेजगुणपरिहीणं'ति असङ्ख्यातगुणेन परिहीणो यः स तथा तं जघन्यमनोयोगस्यासङ्ख्येयभागमानं मनोयोगं निरुणद्धि, ततः क्रमेणानया मात्रया समये समये तं निरुन्धानः सर्वमनोयोगं निरुणद्धि, अनुत्तरेणाचिन्त्येन अकरणवीर्येणेति, एतदेवाह-'पढमं मणोजोगं निरंभइत्ति प्रथम-शेषवागादियोगापेक्षया प्राथम्येन-आदितो मनोयोगं निरुणद्धीति उक्तं च-"पज्जत्तमेत्तसन्निस्स जत्तियाई जहन्नजोगिस्स । होति मणोदवाई तवावारो य जम्मत्तो॥१॥ तदसंखगुणविहीणं समए समए निरंभमाणो | सो । मणसो सम्बनिरोहं करेअसंखेजसमएहिं ॥२॥” ति, एवमन्यदपि सूत्रद्वयं नेयम् , 'अजोगयं पाउणइत्ति अयोगतां प्राप्नोतीति, 'ईसिंहस्सपंचक्खरुच्चारणद्धाएं'त्ति ईसिंति-ईषत्स्पृष्टानि इस्वानि यानि पञ्चाक्षराणि तेषां यदुच्चारणं तस्य याऽद्धा-कालः सा तथा तस्याम् , इदं चोच्चारणं न विलम्बितं द्रुतं वा, किन्तु मध्यममेव गृह्यते, यत आह-"हस्सक्खराई मज्झेण जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगओ तत्तियमेत्तं तओ कालं ॥१॥" शैलेशो-मेरुस्तस्येव
१ पर्याप्तमात्रसंज्ञिनो यावन्ति जघन्ययोगिनः । भवन्ति मनोद्रव्याणि तन्यापारश्च यावन्मात्रः ॥ १॥ तदसङ्ख्यगुणविहीनं समये | समये निरुन्धन् सः । मनसः सर्वनिरोधं कुर्यादसङ्ख्यसमयैः ॥ २ ॥ २ ह्रखाक्षराणि मध्येन येन कालेन पञ्च भण्यन्ते । तिष्ठति शैलेशी| गतस्तावन्मात्रं ततः कालं ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org