________________
हस्थो वर्णादिभिर्न जानातीति 'समणाउस्सो'त्ति हे श्रमण ! हे आयुष्मन् !, अथवा श्रमणश्चासावायुष्माँश्चेति समासस्त
स्यामन्त्रणं हे श्रमणायुष्मन् !, यथा अतिसूक्ष्मत्वाद्गन्धपुद्गलान्न जानातीत्येवं निर्जरापुद्गलानपीति दृष्टान्तोपनयः । 'कम्हा णं भंते ! केवली समोहणंति'त्ति समवघ्नन्ति-प्रदेशान् दिक्षु प्रक्षिपन्ति, एतदेव सुखप्रतिपत्तये वाक्यान्तरेणाह-कम्हा णं केवली समुग्घायं गच्छंति'त्ति, 'अपलिक्खीणे'त्ति स्थितेरक्षयात् 'अवेइया अनिजिण्ण'त्ति क्वचिदृश्यते, तत्र अवेदितास्तद्रसस्याननुभूतत्वात् अनिर्जीर्णाः-तत्प्रदेशानां जीवप्रदेशेभ्योऽपरिशटनात् 'बहुए से वेयणिज्जेत्ति से-तस्य केवलिनो यः समुद्घातं प्रतिपद्यते न पुनः सर्वस्यैव, केषाश्चिदकृतसमुद्घातानामपि समभावस्येष्टत्वात् 'बंधणेहि ति प्रदेशबन्धानुभागबन्धावाश्रित्येत्यर्थः, 'ठिईहि य'त्ति स्थितिबन्धविशेषानाश्रित्येत्यर्थः, "विसमसमकरणयाए बन्धणेहिं ठिईहि य एवं खलु केवली समोहणंति' इहैवमक्षरघटना-एवं खलु विषमसमकरणाय बन्धनादिभिः केवलिनः समुद्घातयन्तीति 'आवज्जीकरणे'त्ति आवर्जीकरणम्-उदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपं, तच्च केवलिसमुद्घातं प्रतिपद्यमानः प्रथममेव करो-2 ति । 'पढमसमए दंडं करेइत्ति प्रथमसमय एव स्वदेहविष्कम्भमूर्ध्वमधश्चायतमुभयतोऽपि लोकान्तगामिनं जीवप्रदेश-18 | सङ्घातं दण्डस्थानीयं केवली ज्ञानाभोगतः करोति, 'बिइए कवाडं करेइ'त्ति द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात्पावतो लोकान्तगामिकपाटमिव कपाटं करोति, 'मथं ति तृतीये समये तदेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसार. णान्मथिसदृशं मन्थानं करोति लोकान्तप्रापिणमेव, 'लोगं पूरेइ'त्ति चतुर्थसमये सह लोकनिष्कुटैर्मन्थान्तराणि पूरयति, ततश्च सकलोलोकः पूरितो भवति, 'लोयं पडिसाहरइ'त्ति पञ्चमे समये मन्थान्तरापूरकत्वेन ये लोकपूरकाः प्रदेशास्ते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org