________________
समुद्घा०
औपपातिकम्
सू०४२
॥१०९॥
फुड'त्ति स्पृष्टो
वणेण वणं ति वर्णभस्थाऽपि विशिष्टाव
सामान्यतः,
प्रदेशः केवलकप्पति केवलज्ञानकल्पं सम्पूर्णमित्यर्थः, वृद्धव्याख्या तु केवल:-सम्पूर्णः कल्पत इति कल्पः-स्वकार्यकरणसमर्थः वस्तुरूप इतियावत् , केवलश्चासौ कल्पश्चेति समासोऽतस्तं 'निजरापोग्गलेहिंति निर्जराप्रधानाः पुद्गला निर्जरा-| पुद्गलाः, जीवेनाकर्मतामापादिताः कर्मप्रदेशा इत्यर्थः, अतस्तैर्निर्जरापुद्गलैः 'फुडे'त्ति स्पृष्टो व्याप्तः, 'छउमत्थेणं'ति छद्मस्थो निरतिशयज्ञानयुक्त इह प्रतिपत्तव्यो यतः छद्मस्थोऽपि विशिष्टावधिज्ञानयुक्तो निर्जरापुद्गलान् जानात्येव 'रूवगयं(चेव)लहइ सव'मिति वचनात् 'वण्णेण वणं ति वर्णेन-वर्णतया याथात्म्येनेत्यर्थः वर्ण-कालवर्णादिकं जानाति विशेषतः पश्यति । सामान्यतः, 'णो इणहे'त्ति नायमर्थः 'समडेत्ति समर्थः-सङ्गतः, कर्मपुद्गलानां सातिशयज्ञानगम्यत्वात् , 'सबभतराए'त्ति सर्वाभ्यन्तरकः 'सवखुड्डाए'त्ति सर्वक्षुलकः, दीर्घत्वं चात्र प्राकृतत्वात् , 'वट्टे'त्ति वृत्तः, वृत्तश्च मोदकवद् घनवृत्तोऽपि स्यादतस्तद्व्यवच्छेदेन प्रतरवृत्तताभिधानार्थमाह-'तेल्लापूयसंठाणसंठिए'त्ति उपलक्षणत्वादस्य घृतापूपादेरप्यत्र ग्रहः, 'रहचक्कवाल'त्ति चक्रवालं-मण्डलं मण्डलत्वधर्मयोगाच्च रथचक्रमपि रथचक्रवालं 'पुक्खरकण्णिय'त्ति पद्मबीजकोशः, 'जाव | इणामेवत्तिकट्टत्ति यावदिति परिमाणार्थस्तावदित्यस्य गम्यमानस्य सव्यपेक्षः, 'इणामेव'त्ति इदं-गमनम् , एवमिति-चप्पु|टिकारूपशीघ्रत्वावेदकहस्तव्यापारोपदर्शनपरः, अनुस्वाराश्रवणं च प्राकृतत्वात् , द्विर्वचनं च शीघ्रतातिशयोपदर्शनपरम् ,
इतिरुपप्रदर्शनार्थः, कृत्वा-विधाय 'तिहिं अच्छरानिवाएहिति तिसृभिश्चप्पुटिकाभिरित्यर्थः 'तिस्सत्तखुत्तोत्ति त्रिगुणाः | सप्त त्रिसप्त त्रिसप्तवारास्त्रिःसप्तकृत्वः एकविंशतिवारा इत्यर्थः, 'हवं'ति शीघ्र 'घाणपोग्गलेहिति गन्धपुद्गलैः, इह स्थाने यावदित्यस्य सव्यपेक्षस्तावदित्ययंशब्दो दृश्यः, 'एस्सुहुमाणं ति एतत्सूक्ष्माः, कोऽर्थः ? एवं नाम सूक्ष्मास्ते यथा तांश्छद्म-18
॥१०९॥
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org