________________
प्रायेणाविश्वासहेतुर्भवतीति, संमयंति सम्मतं तत्कृतकार्याणां सम्मतत्वात् 'बहुमयंति बहुशो बहूनां वामध्ये मतम्-इष्टं यत्तद्बहुमतम् 'अणुमय'ति वैगुण्यदर्शनस्यापि पश्चान्मतमनुमतं 'भंडकरंडगसमाणं'ति आभरणकरण्डकतुल्यमुपादेयमित्यर्थः, तथा 'मा णं सीय' मित्यादि व्यक्तं, नवरं माशब्दो निषेधार्थः, णङ्कारो वाक्यालङ्कारार्थः, इह च स्पृशत्विति यथायोगं योजनीयम् , अथवा माण'तिमा एतच्छरीरमिति व्याख्येयं, माणं वाल'त्ति व्यालाः-श्वापदभुजगाः रोगायंक'त्ति रोगाः-कालमहाव्याधयः आतङ्काः-त एव सद्योघातिनः 'परीसहोवसग्ग'त्ति परीषहाः-शुदादयो द्वाविंशतिः उपसर्गा-दिव्यादयः 'फुसंतु' स्पृशन्तु 8 'इतिकट्टत्ति इतिकृत्वा इत्येवमभिसन्धाय यत्पालितमिति शेषः, 'एयपि णाति एतदपि शरीरं 'वोसिरामित्ति कट्ट' इत्यत्र त्तिकदृत्ति-इतिकृत्वा इति विसर्जन विधाय विहरन्तीति योगः, 'संलेहनाझूसिय'त्तिसंलेखना-शरीरस्य तपसा कृशीकरणं तां |तया वा 'झुसित्ति जुष्टा वा सेविता येते तथा 'संलेहणझूसणाझूसिय'त्ति क्वचित् तत्र संलेखनायां-कषायशरीॐ रकृशीकरणे या जोषणा-प्रीतिः सेवा वा 'जुषी प्रीतिसेवनयो' रिति वचनात् सा तथा तया तां वा ये जुष्टाः-सेवितास्ते | ला तथा संलेखनाजोषणाया वा झूसियत्ति-झूषिताः क्षीणा येते तथा, 'भत्तपाणपडियाइक्खिय'त्ति प्रत्याख्यातभक्तपानाः | 'पाओवगया' पादपोपगता वृक्षवन्निष्पन्दतयाऽवस्थिता इत्यर्थः, 'कालं अणवकंखमाण'त्ति मरणमनवकाक्षन्तः, आकाक्षन्ति हि मरणमतिकष्टं गताः केचनेति तन्निषेध उक्तः 'अणसणाए छेइंति'त्ति अनशनेन व्यवच्छिन्दन्ति-परिहरन्तीत्यर्थः, एते च यद्यपि देशविरतिमन्तस्तथापि परिव्राजकक्रियया ब्रह्मलोकं गता इत्यवसेयम्, अन्यथैतद्भणनं वृथैव स्याद्, देश
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org