SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ __'इड्डी इवत्ति ऋद्धिः-परिवारादिसम्पत् 'जुई इ वत्तिद्युतिः-शरीराभरणादिदीप्तिः, इशब्दो निपातो वाक्यालङ्कारार्थः, इतिशब्दो वाऽयं कृतसन्धिप्रयोग उपप्रदर्शनार्थः, 'जसे इव'त्ति यशः-ख्यातिः, वाशब्दो विकल्पार्थः, क्वचित्पठ्यते-'उहाणे इ वा कम्मे इवत्ति तत्रोत्थानम्-ऊवीभवनं कर्म च-उत्क्षेपणादिका क्रिया 'बले इव'त्ति बलं शारीरःप्राणः 'वीरिए इवा' वीर्य-जीवप्रभवः प्राण एव 'पुरिसक्कारपरिक्कमे इ वत्ति पुरुषकारः-पुरुषाभिमानः स एव निष्पादितफलः पराक्रमः, "हंते'त्ति एवमेवेत्यर्थः, 'तेणं देवा परलोगस्स आराहग'त्ति ते अकामनिर्जरालब्धदेवभवा व्यन्तराः 'परलोकस्य'जन्मान्तरस्य निर्वाणसाधनानुकूलस्य 'आराधका निष्पादका इति प्रश्नः?, 'नो इणडे'त्ति नायमर्थः 'समडे'त्ति समर्थः-सङ्गत इत्युत्तरम् , अयमभिप्रायो-ये हि सम्यग्दर्शनज्ञानपूर्वकानुष्ठानतो देवाः स्युस्त एवावश्यंतया आनन्तर्येण पारम्पर्येण वा निर्वाणानुकूलं भवान्तरमावर्जयन्ति, तदन्ये तु भाज्याः५। 'से जे' इत्यादिसूत्रं व्यक्तं, नवरं सेशब्दोऽथशब्दार्थः, अथशब्दश्चेह वाक्योपक्षेपार्थो,ग्रामादयःप्राग्वत् , “अंडुबद्धग'त्ति अण्डूनि-अन्दुकानि काष्ठमयानि लोहमयानि वा हस्तयोः पादयोर्वा बन्धनविशेषाः | 'नियलबद्धग'त्ति निगडानि-लोहमयानि पादयोर्बन्धनानि 'हडिबद्धगत्ति हडि:-खोटकः 'चारगबद्धग'त्ति चारको-गुप्तिः 'मुरवच्छिन्नग'त्ति मुरजी-गलघण्टिका 'मज्झच्छिन्नग'त्ति मध्य-उदरदेशः 'वइकच्छच्छिन्नग'त्ति उत्तरासङ्गन्यायेन विदारिताः, | 'हियउप्पाडियग'त्ति उत्पाटितहृदया आकृष्टकालेयकमांसा इत्यर्थः, 'वसणुप्पाडियग'त्ति उत्पाटितवृषणा आकृष्टाण्डा इत्यर्थः, 'तण्डुलच्छिन्नग'त्ति तण्डुलप्रमाणखण्डैः खण्डिताः 'कागणिमंसखाइय'त्ति काकणीमांसानि तद्देहोद्धृतश्लक्ष्णमांसखण्डानि तानि खादिताः 'उल्लंबियग'त्ति अवलम्बितकाः रज्ज्वा बद्धा गर्तादाववतारिताः, उल्लम्बितपर्यायास्तु नैते भवन्ति, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy