SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ आपपातिकम् कोणिक सू० ३१ ॥७०॥ __ 'तरमल्लिहायणाणं'ति तरो-वेगो बलं वा तथा ‘मल मल्ल धारणे' ततश्च तरोमल्लो-तरोधारकः वेगादिकारको हायनः|संवत्सरो वर्तते येषां ते तरोमल्लिहायनाः, यौवनवन्त इत्यर्थः, अतस्तेषां वरतुरङ्गाणामिति योगः, वाचनान्तरे त्वेवमधीयते -'वरमल्लिभासणाणं' प्रधानमाल्यवताम् , अत एव दीप्तिमतां चेत्यर्थः, 'हरिमेलामउलमल्लियच्छाणं' हरिमेला-वनस्पतिवि-18 | शेषस्तस्या मुकुलं-कुड्मलं मल्लिका च-विचकिलस्तद्वदक्षिणी येषां ते तथा तेषां, शुक्लाक्षणामित्यर्थः, 'चंचुच्चियललियपुलि यचलचवलचंचलगईणं' चंचुच्चियंति प्राकृतत्वेन चञ्चुरितं-कुटिलगमनं अथवा चञ्चः-शुकचचुस्तद्वद्वक्रतयेत्यर्थः, उच्चि| तम्-उच्चताकरणं पादस्य उच्चितं वा-उत्पाटनं पादस्यैवं चञ्चच्चितं तच ललितं च-विलासवद्गतिः पुलितं च-गतिविशेषः प्रसिद्ध एव एवंरूपा चलानाम्-अस्थिराणां च सतां चपलेभ्यः सकाशाच्चञ्चला अतीव चटुलेत्यर्थो, गतिर्येषां ते तथा तेषां, 'लंघणवग्गणधावणधोरणतिवईजइणसिक्खियगईणं' लड्डनं-गादेरतिक्रमणं वल्गनम्-उत्कुईनं धावन-शीघ्रमृजुगमनं धोरणं-गतिचातुर्यं त्रिपदी-भूमौ पदत्रयन्यासः जयिनी च-गमनान्तरजयवती जविनी वा-वेगवती शिक्षिता-अभ्यस्ता गतियैस्ते तथा तेषां, 'ललंतलामगललायवरभूसणाणं' ललन्ति-दोलायमानानि लामंति-प्राकृतत्वाद्रम्याणि गललातानिकण्ठेनाऽऽत्तानि वरभूषणानि येषां ते तथा तेषां, 'मुहभंडगओचूलगथासगमिलाणचमरीगंडपरिमंडियकडीणं' मुखभाण्डकंमुखाभरणम् अवचूला:-प्रलम्बमानगुच्छाः स्थासकाश्च-आदर्शकाकारा येषां ते तथा मिलाणत्ति-पर्याणैरथवा अम्लानैः-अमलिनैः चमरीगण्डैः-चामरदण्डैः परिमण्डिता कटिर्येषां ते तथा ततः कर्मधारयोऽतस्तेषां, 'किंकरवरतरुणपरिग्गहियाणं'ति व्यक्तम् । अथाधिकृतवाचनाऽनुश्रीयते-'थासगअहिलाणचामरगण्डपरिमंडियकडीणं' थासगअहिलाणत्ति इह मत्वर्थीयलो ॥७०॥ 2-56 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy