________________
|च, तत्र 'सामाणियतायत्तीससहिया' सामानिका-इन्द्रसमानायुष्कादिभावाः त्रायस्त्रिंशाः-महत्तरकल्पाः पूज्यस्थानीयाः | 'सलोगपालअग्गमहिसिपरिसाणीअअप्परक्खेहिं संपरिबुडा' सह लोकपालैः-सोमादिभिर्दिक्पालकनियुक्तकैः या अग्रमहिष्यः-प्रधानजायाः परिषदश्च-बाह्यमध्यमाभ्यन्तरा जघन्यमध्यमोत्कृष्टपरिवारविशेषभूताः अनीकानि च-हस्त्यश्वरथपदातिवृषभनर्तकगाथकजनरूपाणि सैन्यानि आत्मरक्षाश्च-अङ्गरक्षा इति द्वन्द्वः, अतस्तैः सम्परिवृता इति, देवसहस्रानुयातमागैः सुरवरगणेश्वरैः प्रयतैः 'समणुगम्मतसस्सिरीय'त्ति समनुगम्यमानाश्च ते सश्रीकाश्चेति समासः, सर्वादरभूषिताः | सुरसमूहनायकाः सौम्यचारुरूपाः 'देवसंघजयसद्दकयालोया' देवसङ्घन जयशब्दः कृत आलोके-दर्शने येषां ते तथा । _ 'मिग १ महिस २ वराह ३ छगल ४ दहुर ५ हय ६ गयवइ ७ भुयग ८ खग्ग ९ उसभंक १० विडिमपागडियचिंधमउडा' मृगादयो दश दशामां शक्रादीन्द्राणां चिह्नभूताः, तत्र वराहः-शूकरः खड्ग-आटव्यचतुष्पदविशेषः ऋषभो-वृषभः शेषाः प्रतीताः, तत्र मृगादयः अङ्का-लाञ्छनानि विटपेषु-विस्तरेषु येषां मुकुटानां तानि तथा, तानि प्रकटितचिह्नानिरत्नादिदीप्या प्रकाशितमृगादिलाञ्छनानि मुकुटानि येषां ते तथा। पालक १ पुष्पक २ सौमनस ३ श्रीवत्स ४ नन्द्यावर्त| ५ कामगम ६ प्रीतिगम ७ मनोगम ८ विमल ९ सर्वतोभद्र १० नामधेयैर्विमानैः, उत्तरवैक्रियैरित्यर्थः, सम्प्रस्थिता इति योगः, एतानि च क्रमेण शक्रादीनामच्युतान्तानां दशानामिन्द्राणां भवन्तीति । किंविधैस्तैरित्याह-तरुणदिवागरकरातिरेगप्पहेहिं' तरुणदिवाकरकरेभ्योऽतिरेकेण-अतिशयेन प्रभा येषां तानि तथा तैः, 'मणिकणगरयणघडियजालुजलहेमजालपेरंतपरिगएहि मणिकनकरत्नैर्घटितं-युक्तं यज्ज्वालोजवलं-प्रभोज्ज्वलं हेमजालं-स्वर्णजालकं तेन पर्यन्तेषु परिगतानि
SISSIMORUSAUSIS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org