________________
प्रज्ञापनायाः मल
य० वृत्तौ
||६०८ ॥
३६ समु•
३४९
ण' मित्यादि, तस्मात् मनोयोगनिरोधादनन्तरं चशब्दो वाक्यसमुच्चये णमिति वाक्यालङ्कारे द्वीन्द्रियस्य पर्याप्तस्य जघन्ययोगिनः सत्कस्य वायोगस्येति गम्यतेऽधस्तात् वाग्योगं असङ्ख्येयगुणपरिहीनं समये समये निरुन्धानोऽ- २ द्वातपदं योगनिरो सङ्ख्येयैः समयैः साकल्येनेति गम्यते द्वितीयं वाग्योगं निरुणद्धि, आह च भाष्यकृत् - "पज्जत्तमित्तबिंदिय जहधः सू. ण्णव जोगपज्जवा जे उ । तदसंखगुणविहीणं समये समये निरुभंतो ॥ १ ॥ सववइजोगरोहं संखाईएहिं कुणइ समएहिं" "ततोऽणंतरं च णमित्यादि, ततो वाग्योगादनन्तरं च णं प्राग्वत् सूक्ष्मस्य पनकजीवस्य अपर्याप्तकस्य प्रथमसमयोत्पन्नस्येति भावार्थ: जघन्ययोगिनः – सर्वाल्पवीर्यस्य पनकजीवस्य यः काययोगस्तस्याधस्तादसङ्ख्येयगुणहीनं काययोगं समये समये निरुन्धन् असङ्ख्येयैः समयैः समस्तमपीति गम्यते तृतीयं काययोगं निरुणद्धि, तं च काययोगं निरुन्धानः सूक्ष्मक्रियमप्रतिपाति ध्यानमधिरोहति, तत्सामर्थ्याच्च वदनोदरादिविधरपूरणेन सकुचितदेह त्रिभागवर्त्तिप्रदेशो भवति, तथा चाह भाष्यकृत् - " तत्तो य सुहुमपणगस्स पढमसमयोववण्णस्स ॥ जो किर जहण्णजोगी तदसंखेज्जगुणहीणमेकेके । समएहिं रुंभमाणो देहतिभागं च मुंचंतो ॥ १ ॥ रुभइ स कायजोगं संखाई एहिं चैव समएहिं' काययोगनिरोधकालान्तरे चरमे अन्तर्मुहूर्त्ते वेदनीयादित्रयस्य प्रत्येकं स्थितिः सर्वापवतनया अपवर्त्त्यायोग्यवस्थासमाना क्रियते गुणश्रेणिक्रमविरचितप्रदेशा, तद्यथा - प्रथमस्थितौ स्तोकाः प्रदेशाः, द्वितीयस्यां स्थितौ ततोऽसङ्ख्येयगुणाः, तृतीयस्यां ततोऽप्यसङ्ख्येयगुणाः, एवं तावद्वाच्यं यावच्चरमा स्थितिः, स्था
Jain Education International
For Personal & Private Use Only
॥ ६०८ ॥
www.jainelibrary.org