SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ भावः, उक्तं च –“जस्स उ तुल्लं भवइ य कम्मचउक्कं सभावतो जो य । सो अकयसमुग्धाओ सिज्झइ जुगवं खवेऊणं ॥ १ ॥ " [ यस्य तु तुल्यं भवति तु कर्मचतुष्कं खभावतो यश्च ( समकर्मा) । सोऽकृतसमुद्घातः सिध्यति युगपत् क्षपयित्वा ॥ १ ॥ ] अथायं कदाचित्को भाव उत बाहुल्यभावः ?, तत आह - ' अगंतूण समुग्धाय' मित्यादि, अगत्वा समुद्घातं - केवलिसमुद्घातं 'सिद्धिं' चरमगतिं गता इति सम्बन्धः कियत्सङ्ख्या का इत्याह- अनन्ताः - अनन्तसङ्ख्याकाः 'केवलिनः' केवलज्ञानदर्शनोपेताः, अनेन ये नवानामात्मगुणानामत्यन्तोच्छेदो मोक्ष इति प्रतिपनास्तेऽपास्ता द्रष्टव्याः, ज्ञानस्य निरुपचरितात्मखभावत्वात् तस्य च विनाशायोगाद्, अन्यथाऽऽत्मन एवाभावापत्तेः, नं चात्मनो निरन्वयो विनाशः, सतः सर्वथा विनाशायोगात्, 'नासतो विद्यते भावो नाभावो विद्यते सत' इति न्यायात्, तथा जिना - जितरागादिशत्रवः, अनेन गोशालकमतापाकरणमाह, ते हि मुक्तिपदमध्यासीनमपि न तत्त्वतो वीतरागमपि मन्यन्ते, 'अवाप्तमुक्तिपदा अपि तीर्थनिकार दर्शनादिहागच्छन्ती'ति वचनात्, तत्त्वतो वीतरागस्य च पराभवबुद्धे रिहागमनस्य चासम्भवात् पुनः कथंभूता इत्याह- ' जरामरणविप्रमुक्ता' जरा च मरणं च जरामरणे ताभ्यां विप्रमुक्ता जरामरणविप्रमुक्ताः, जरामरणग्रहणमुपलक्षणं तेन समस्त रोगशोकादिसांसारिकक्लेशविमुक्ता इति द्रष्टव्यं एतेन एकान्ततो मोक्षसौख्यस्योपादेयतामाह, अन्यस्यैवंविधस्वरूपस्य स्थानस्यासम्भवात् नहि संसारे प्रकर्षसुखप्राप्तमपि स्थानमेवंविधमस्ति, सर्वस्यापि मरणपर्यवसानत्वात्, सेधनं सिद्धिः - अशेषकर्माशापगमेनात्मनः Jain Education Ineral For Personal & Private Use Only Sinelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy