________________
प्रज्ञापनायाः मल
य० वृत्तौ.
॥५७३ ॥
जस्सत्थि जहन्नेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा वा असंखेजा वा अनंता वा' तत्र यो मारणान्तिकसमुद्घातमन्तरेण कालं कृत्वा नरकादुद्वृत्तः अनन्तरं पारम्पर्येण वा मनुष्यभवं प्राप्य सेत्स्यति न भूयो नरकगामी तस्य न सन्ति पुरस्कृता मारणान्तिकसमुद्घाताः, यः पुनस्तद्भवे वर्त्तमानो मारणान्तिकसमुद्घातेन कालं कृत्वा | नरकादुद्वृत्तः सेत्स्यति तस्यैकः पुरस्कृतो मारणान्तिकसमुद्घातो यः पुनर्भूयोऽपि नरकमागत्य सर्वसङ्ख्यया द्वौ मारणान्तिकसमुद्घातौ गन्ता तस्य द्वौ, एवं त्रिप्रभृतयोऽपि भावनीयाः, सङ्ख्येयान् वारान् नरकमागन्तुः सङ्ख्येयाः असयेयान् वारान् असङ्ख्येयाः अनन्तान् वारान् अनन्ताः, एवमसुरकुमारत्वे आलापको वाच्यः, नवरमत्रैवं भावनायो नरकादुवृत्तो मनुष्यभवं प्राप्य सेत्स्यति यदिवा तस्मिन् भवे मारणान्तिकसमुद्घात मगत्वा मृत्युमासाद्य ततोऽन्यभवे सिद्धिं गन्ता तस्यैव न सन्ति, शेषस्य त्वेकादिभावना प्रागिव, व्यन्तरज्योतिष्क वैमानिकेषु यथा नैरयिकस्य, (यथा नैरयिकस्य ) | नैरयिकादिषु चतुर्विंशतिस्थानेषु चिन्ता कृता तथाऽसुरकुमारादीनां वैमानिकपर्यवसानानां चतुर्विंशतिदण्डकक्रमेण कर्त्तव्या, तदेवमन्यान्यपि चतुर्विंशतिर्दण्डकसूत्राणि भवन्ति, तथा चाह - ' एवं एए चउवीसं चउवीसा दंडगा भाणियद्या' इति, उक्तो मारणान्तिकसमुद्घातश्चतुर्विंशत्या चतुर्विंशतिदण्डकसूत्रैः, साम्प्रतमेतावत्सङ्ख्या कैरेव सूत्रैर्वैक्रियसमुद्घातं विवक्षुराह - 'वेउचिए' इत्यादि, वैक्रियसमुद्घातो यथा कषायसमुद्घातः प्राक् प्रतिपादितः तथा निरविशेषो भणितव्यः, केवलं यस्य वैक्रियसमुद्घातो नास्ति वैक्रिय लब्धेरेवासम्भवात् तस्य नोच्यते, शेषस्य उच्यते, स
Jain Education anal
For Personal & Private Use Only
३६ समुद्यातपदे
नारकादेनरिकत्वा
दौ मारणान्तिकाद्याः
सू. ३३५
॥५७३ ॥
www.jainelibrary.org