SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ प्र. ९६ Jain Education 1 भाजां भूयस्तत्रैवानुत्पत्स्यमानानामवगन्तव्याः सङ्ख्येयादयो नैरयिकत्वे इव भावनीयाः, 'एव' मित्यादि, एवं - उक्तेन प्रकारेण नागकुमारत्वे तत ऊर्द्ध चतुर्विंशतिदण्डकक्रमेण निरन्तरं यावद्वैमानिकत्वे – वैमानिकत्वविषयं सूत्रं, यथा नैरयिकस्य भणितं तथैव भणितव्यं किमुक्तं भवति १ - नागकुमारत्वादिषु स्तनितकुमार पर्यवसानेषु पुरस्कृतचिन्तायां 'कस्सइ अत्थि कस्सइ नत्थि, जस्स अस्थि सिय संखेज्जा सिय असंखेज्जा सिय अनंता' पृथिवीकायिकत्वादिषु मनुष्यत्वपर्यवसानेषु 'जस्स अस्थि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा' व्यन्तरत्वे 'जस्स अस्थि सिय संखेज्जा सिय असंखेजा सिय अनंता' ज्योतिष्कत्वे 'जस्स अस्थि सिय असंखेज्जा सिय अनंता' वैमानिकत्वेऽप्येवमेवेति वक्तव्यमिति, एवं जावे' त्यादि, एवं - उक्तेन प्रकारेण असुरकुमारवन्नागकुमारस्य यावत् स्तनितकुमारस्य प्रत्येकं यावद वैमानिकत्वे – वैमानिकत्वविषयं सूत्रं तावद्वक्तव्यं, अत्रैव विशेषमाह - नवरं सर्वेषां नागकुमारादीनां स्तनितकुमार पर्यवसानानां स्वस्थाने नियमतः पुरस्कृता एकोत्तरिकाः परस्थाने यथैवासुरकुमारस्य तथैव वक्तव्याः, 'पुढविकाइयस्स नेरइयत्ते' इत्यादि, पृथिवीकायिकस्य नैरयिकत्वे यावत् स्तनितकुमारत्वे अतीता अनन्ताः, अत्र भावना प्रागिव, पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति तत्र यः पृथिवी - कायभवाद्वृत्तो नरकेष्वसुरकुमारेषु यावत् स्तनितकुमारेषु न गमिष्यति किन्तु मनुष्यभवं प्राप्य सिद्धिं गन्ता तस्य न सन्ति, शेषस्य तु सन्ति, यस्यापि सन्ति तस्यापि जघन्यतः सङ्ख्येयाः, जघन्यस्थितावपि नरकादिषु सङ्ख्येयानां For Personal & Private Use Only mainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy