________________
प्रज्ञापनाया: मलय० वृत्ती.
३६ समु. द्घातपदं
सू.३३२
॥५६॥
गोयमा! नत्थि, केवइया पुरेक्खडा?, गोयमा! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि एको' इति, तत्रैव विशेषमाह-'नवर'मित्यादि, नवरमयं विशेषः-मनुष्यस्य केवलिसमुद्घातस्य चिन्तायामतीतः कस्याप्यस्ति कस्यापि नास्तीति वक्तव्यः, तत्र यः केवलिसमुद्घातात् प्रतिनिवृत्तो वर्त्तते न चाद्यापि मुक्तिपदमवाप्नोति तस्यास्त्यतीतः केवलिसमुद्घातः, ते च सर्वसङ्ख्यया उत्कर्षपदे शतपृथक्त्वप्रमाणा वेदितव्याः, कस्यापि नास्ति अतीतः केवलिसमुद्घातो, यो न समुद्घातं गतवान् , ते च सर्वसङ्ख्यया असङ्ख्येया द्रष्टव्याः, शतपृथक्त्वव्यतिरेकेणान्येषां सर्वेषामप्यसम्प्राप्तकेवलिसमुद्घातत्वात् , अत्राप्यस्तीति निपातस्य सर्वलिङ्गवचनत्वात् , 'कस्सइ अस्थि कस्सइ नत्थि' इत्युक्ती बहुत्वाशका स्यात् ततस्तव्यवच्छेदार्थमाह-यस्य मनुष्यस्यातीतः केवलिसमुद्घातस्तस्य नियमादेको न द्वित्राः, एकेनैव समुद्घातेन प्रायः समस्तघातिकर्मणां निर्मूलकाषंकषितत्वात् , 'एवं पुरेक्खडावि'त्ति एवं भतीतगतेन प्रकारेण पुरस्कृता अपि केवलिसमुद्घाता वाच्याः, ते चैवम्-'कस्सइ अस्थि कस्सइ नत्थि, जस्सस्थि एक्को' इति, अत्र भावना पूर्वोक्तानुसारेण खयं भावनीया ॥ तदेवमतीतमनागतं च कालमधिकृत्य एकैकस्य नैरयिकादेर्वेदनादिसमुद्घातचिन्ता कृता, सम्प्रति नैरयिकादेः प्रत्येकं समुदायरूपस्य तच्चिन्तां चिकीर्षुराह
नेरइयाणं भंते! केवइया वेदणासमुग्धाया अतीता?, गो०! अणंता, केवइया पुरेक्खडा, गो० ! अणंता, एवं जाव वेमाणियाणं, एवं जाव तेयगसमुग्घाए, एवं एतेवि पंच चउवीसदंडगा, नेरइयाणं ! मंते ! केवइया आहारगसमुपाया
Caeeeeeeeeee
५६५॥
Education Internal
For Personal & Private Use Only
www.janelibrary.org