SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ चिन्तायामुत्कृष्टपदे यान्यलोके लोकप्रमाणमात्राणि खण्डानि असङ्ख्येयानि तानि परमावधिमपेक्ष्य द्रष्टव्यानि, तस्यैवैतावद्विषयसम्भवात् , एतत्सामर्थ्यमात्रमुपवयेते, यद्येतावति क्षेत्रे द्रष्टव्यं भवति तर्हि पश्यति यावता तन्न विद्यते.. अलोके रूपिद्रव्याणामसम्भवात् , रूपिद्रव्यविषयश्चावधिः, केवलमयं विशेषो-यावदद्यापि परिपूर्ण लोकं पश्यति तावदिह स्कन्धानेव पश्यति, यदा पुनरलोकेऽपि प्रसरमवधिरधिरोहति तदा यथा यथाऽभिवृद्धिमासादयति तथा | तथा लोके सूक्ष्मान् सूक्ष्मतरान् स्कन्धान् पश्यति यावदन्ते परमाणुमपि, उक्तं च-"सामत्थमेत्तमुत्तं दट्टच्वं जह हवेज पेच्छेजा । न उ तं तत्थत्थि जओ सो रूविनिबंधणो भणिओ ॥१॥ वडंतो पुण बाहि लोगत्थं चेव पासई दछ । सुहुमयरं सुहुमयरं परमोही जाव परमाणुं ॥२॥" [सामर्थ्यमात्रमुक्तं द्रष्टव्यं यदि भवेत् प्रेक्षेत नतु तत्तत्रास्ति यतः स रूपिनिबन्धनो भणितः॥१॥ वर्धमानः पुनर्बहिर्लोकस्थमेव पश्यति द्रव्यं । सूक्ष्मतरं सूक्ष्मतरं परमावधिर्यावत् परमाणुं॥२॥] इत्थंभूतपरमावधिकलितश्च नियमादन्तर्मुहूर्तेन केवलालोकलक्ष्मीमालिङ्गति, यत उक्तं-“परमोहीनाणविऊ केवलमंतोमुहुत्तमेत्तेणं" [ परमावधिज्ञानविदः केवलमन्तर्मुहूर्त्तमात्रेण ] इति, वैमानिकानां यजघन्यपदे अङ्गुलासङ्ख्येयभागप्रमाणं क्षेत्रं उक्तं तत्र पर आह-नन्वङ्गुलासङ्ख्येयभागमात्रक्षेत्रपरिमितोऽवधिः सर्वजघन्यो भवति, सर्वजघन्यश्चावधिस्तियग्मनुष्येष्वेव न शेषेषु, यत आह भाष्यकृत् खकृतटीकायाम्-"उत्कृष्टो मनुष्येष्वेव नान्येषु, मनुष्यतिर्यग्योनिष्वेव जघन्यो नान्येषु, शेषाणां मध्यम एपेति" तत्कथमिह सर्वजघन्य उक्तः, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy