________________
प्रज्ञापनाया: मलयवृत्ती.
३३ अवधिपदंसू.
॥५३९॥
चशब्दो खगतानेकभेदसूचकौ, तत्र तु यो येषां भवति तं तेषामुपदर्शयति-'दोण्ह'मित्यादि, द्वयोर्जीवसमूहयोर्भव- प्रत्ययकः, तद्यथा-देवानां च नारकाणां च, देवा भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदाचतुर्विधाः, नारका रत्नप्रभादिपृथिवीभेदात् सप्तविधाः, चशब्दौ प्रत्येकं खगतानेकभेदसूचकौ, ते चानेकभेदा विषयसंस्थानचिन्तायामग्रे खयमेव सूत्रकृतैवोपदर्शयिष्यन्ते, आह-नन्ववधिज्ञानं क्षायोपशमिके भावे वर्तते नारकादिभवस्त्वौदयिके तत्कथं देवादीनामवधिज्ञानं भवप्रत्ययमिति व्यपदिश्यते ?, नैष दोषो, यतस्तदपि परमार्थतःक्षायोपशमिकमेव, केवलं स क्षयोपशमो देवनारकभवेष्ववश्यंभावी पक्षिणां गगनगमनलब्धिरिव ततो भवप्रत्ययमिति व्यपदिश्यते, आह च नन्धध्ययनचूर्णिकृत्-"नणु ओही खओवसमिओ चेव नारगादिभवो से उदइए भावे तओ कहं भवपचइओ भण्णइ १, उच्यते, सोऽवि खओवसमिओ चेव, किंतु सो खओवसमो देवनारगभवेसु अवस्सं भवइ, को दिटुंतो ?-पक्खीणं| आगासगमणं व, तओभवपञ्चइओ भण्णईत्ति, तथा द्वयोः क्षायोपशमिकस्तद्यथा-मनुष्याणां च पञ्चेन्द्रियतिथेग्योनिजातानां च, अत्रापि चशब्दौ प्रत्येकं खगतानेकभेदसूचकौ. मनुष्याणां तिर्यक्रपञ्चेन्द्रियतिरश्चां चावधिज्ञानं नावश्यंभावि ततः सामान्येऽपि क्षायोपशमिकत्वे भवप्रत्ययादिदं भिद्यते, परमार्थतः पुनः सकलमप्यवधिज्ञानं क्षायोपश-18 |मिकमेवेति । तदेवमुक्तो भेदः, सम्प्रति विषयप्रतिपादनार्थमाह
नेरइया णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति ?, गो! जह० अद्धगाउयं उक्को. चत्तारि गाउयाई ओहिणा
302030280090020209002020a
॥५३९॥
www.jainelibrary.org
Jain Education International
For Personal & Private Use Only