SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ मानुरूपं कियत्कालं स्थित्वा प्रदीप इव सामस्त्येन विध्वंसमुपयाति, अथ हीयमानकप्रतिपातिनोः कः प्रतिविशेषः, | उच्यते, हीयमानकः पूर्वावस्थातोऽधोऽधो हानिमुपगच्छन्नभिधीयते प्रतिपाती तु निर्मूलमेककालं ध्वंसमुपगच्छन्निति, तथा न प्रतिपाती अप्रतिपाती, यत्केवलज्ञानाद्वा मरणादारतो वा न भ्रंशमुपयातीत्यर्थः, तथा गच्छन्तं पुरुष आ-समन्तादनुगच्छतीत्येवंशीलमानुगामि आनुगाम्येवानुगामिकः, खार्थे कः प्रत्ययः, अथवा अनुगमः प्रयोजनं यस्य स आनुगामिकः, लोचनवत् गच्छन्तमनुगच्छति सोऽवधिरानुगामिक इति भावः, तथा न आनुगामिकोऽनानुगामिकः, शृङ्खलाप्रतिवद्धदीप इव यो गच्छन्तं पुरुषं नानुगच्छतीति भावः॥ तदेवमधिकारप्रतिपादनाय द्वारगाथोपन्यस्ता, सम्प्रति 'यथोद्देशं निर्देश' इति न्यायात् प्रथमतो भेदप्रतिपादनार्थमाह-कइविहा णं भंते !' इत्यादि, कतिविधो भदन्त ! अवधिः प्रज्ञप्तः, सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वात् , भगवानाह-गौतम ! द्विविधोऽवधिः प्रज्ञप्तः, तद्यथा-'भवपचइया य खओवसमिया य' भवप्रत्ययकाक्षायोपशमिकश्च, तत्र भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवो-नारकादिजन्म, 'पुंनाम्नीति अधिकरणे घप्रत्ययः, भव एव प्रत्ययः-कारणं यस्य स भवप्रत्ययः, प्रत्ययशब्द-1 श्वेह कारणपर्यायः, वर्त्तते च प्रत्ययशब्दः कारणत्वे "प्रत्ययः शपथज्ञानहेतुविश्वासनिश्चये” इति, स एव खार्थिककप्रत्ययविधानात् भवप्रत्ययकः, तथाऽवधिज्ञानावरणीयस्य कर्मण उदयावलिकाप्रविष्टस्यांशस्य वेदनेन योऽपगमः। स क्षयोऽनुदयावस्थस्य विपाकोदयविष्कम्भणमुपशमः क्षयश्च उपशमश्च क्षयोपशमौ ताभ्यां निवृत्तः क्षायोपशमिकः, - www.jainelibrary.org For Personal & Private Use Only dan Education International
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy