SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ शानामवधिरवसेयः, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेऽपि औदारिकशरीरमध्यभागेनोपलब्धिः स मध्ये | गतो मध्यगतः, उक्तं च नन्द्यध्ययनचों-"ओरालियसरीरमझे फहगविसुद्धीओ सवायप्पएसविसुद्धीओ वा सव-| दिसोवलंभत्तणओ मज्झगतोत्ति भण्णइ' इति, अथवा तेनावधिना यदुद्योतितं क्षेत्रं सर्वासु दिक्षु तस्य मध्ये-मध्यभागे स्थितो मध्यगतः, अवधिज्ञानिनस्तदुद्योतितक्षेत्रमध्यवर्तित्वात, आह च नंदिचूर्णिकृदेव-"अहवा उवलद्धिखेत्तस्स अवहिपुरिसो मज्झगतोत्ति अतो वा मज्झगतो ओही भण्णइ' इति, इह व्याख्यांनत्रयेऽपि यदाऽवधिना द्योतितं क्षेत्रमवधिमता सम्बद्धं भवति तदा सोऽभ्यन्तरावधिर्मतः सर्वदिगुपलब्धिक्षेत्रमध्यवर्तित्वात् , एष चेह न ग्रामोऽभ्यन्तरावधावस्यान्तर्भावात् , यदा तु तदुद्योतितं क्षेत्रमपान्तराले व्यवच्छिन्नत्वादवधिमता सम्बद्धं न भवति तदा बाझोऽवधिः एष चेह ग्राह्यः, प्रस्तुतत्वात् , तथा 'देसोही' इति देशावधिर्वक्तव्यः, उपलक्षणमेतत् , प्रतिपक्षभूतः सर्वावधिश्व, अथ किंखरूपो देशावधिः किंखरूपो वा सर्वावधिरिति चेत्, उच्यते, इहावधिस्त्रिविधो भवति, तद्यलाथा-सर्वजघन्यो मध्यमः सर्वोत्कृष्टश्च, तत्र यः सर्वजघन्यः स द्रव्यतोऽनन्तानि तैजसभाषापान्तरालवर्तीनि द्रव्याणि क्षेत्रतोऽगुलासङ्ख्येयभागं क्षेत्रं कालतोऽतीतमनागतं चावलिकाया असङ्ख्येयभागं, इहावधिः क्षेत्रं कालं च खरूपतः| साक्षान्न जानाति, तयोरमूर्तत्वात् , अवधेश्च रूपिविषयत्वात् 'रूपिष्ववधे' (तत्त्वा-अ०१सू० २८) रिति वचनात्, हाइह क्षेत्रकालदर्शनमुपचारतो वेदितव्यं, किमुक्तं भवति?-एतावति क्षेत्रे काले च यानि द्रव्याणि तानि जानातीति, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy