________________
होज आहारगा १, अहवा आहारगा य अणाहारगे य २ अहवा आहारगा य अणाहारगा य ३, एवं जाव थणियकुमारा, बेइंदियाणं पुच्छा, गो० ! सच्चेवि ताव होज आहारगा य १ अहवा अणाहारगा य २ अहवा आहारए य अणाहारए य ३, अहवा आहारगे य अणाहारगा य ४, अहवा आहारगा य. अणाहारगे य ५, अहवा आहारंगा य अणाहारगा य ६, एवं तेइंदियचउरिंदियावि भाणितच्चा, अवसेसा जाव वेमाणिया जहा नेरइया, सिद्धाणं पुच्छा, गो० ! अणाहारगा य' इति, आभिनिबोधिकज्ञानिसूत्रे श्रुतज्ञानिसूत्रे चैकवचने प्राग्वदवसेयं, बहुवचने द्वित्रिचतुरिन्द्रियेषु षड् भङ्गाः, अवशेषेषु तु जीवादिषु स्थानेषु एकेन्द्रियवर्जेषु भङ्गत्रिकं, तचैवम् – 'आभिनिबोहियनाणी णं भंते! जीवा किं आहारगा अणाहारगा ?, गो० ! सधेवि ताव होज्ज आहारगा १ अहवा आहारगा य अणाहारगे य २ अहवा आहारगाय अणाहारगा य ३ इत्यादि, तथा चाह - 'आभिणिबोहियनाणी सुयनाणी य बेइंदियतेहूंदियचउरिदिए छन्भंगा, अवसेसेसु जीवाइओ तियभंगो, जेसिं अस्थि' इति सुगमं, नवरं 'जेसिं अस्थि' येषां जीवानामाभिनिबोधिकज्ञानश्रुतज्ञाने स्तस्तेषु भङ्गत्रिकं वक्तव्यं, न शेषेषु पृथिव्यादिष्विति, अवधिज्ञानसूत्रमेकवचने तथैव, बहुवचनचिन्तायां पञ्चेन्द्रियतिर्यग्योनिका आहारका एव न त्वनाहारकाः, कस्मादिति चेत्, उच्यते, इह पञ्चेन्द्रियतिरश्चामनाहारकत्वं विग्रहगतौ न च तदानीं तेषां गुणप्रत्ययतोऽवधिसम्भवो, गुणानामेवासम्भवात् नाप्यप्रतिपतितावधिर्देवो मनुष्यो वा तिर्यक्षत्पद्यते, ततोऽवधिज्ञानिनः सतः पश्चेन्द्रियतिरश्चोऽनाहारकत्वायोगः, शेषेषु तु स्थानेष्वेकेन्द्रिय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org