SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मलयवृत्ती. २८आहारपदे उद्देशः१असुरादीनामाहारादि सू. ३०४ ॥५०३॥ उच्यते, अशुभानुभाव एव, तथापि प्रायो मिथ्यादृष्टयः कृष्णादीन्याहारयन्ति न तु भविष्यत्तीर्थकरादयः तत ओसनेत्युक्तं, वर्णतः कालनीलानि गन्धतो दुरभिगन्धानि, रसतस्तिक्तकटुकानि स्पर्शतः कर्कशगुरुशीतरूक्षाणि इत्यादि, तेषामाहार्यमाणानां पुद्गलानां 'पुराणान्' अग्रेतनान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् ‘विपरिणामइत्ता परिवीलइत्ता परिसाडइत्ता परिविद्धंसइत्ता' एतानि चत्वार्यपि पदानि एकार्थिकानि विनाशार्थप्रतिपादकानि नानादेशजविनेयानुग्रहार्थमुपात्तानि, विनाश्य किमित्याह-अन्यान् अपूर्वान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् उत्पाद्य आत्मशरीरक्षेत्रावगाढान् पुद्गलान् 'सबप्पणया' सर्वात्मना सवरेवात्मप्रदेशैराहारमाहाररूपान् आहारयन्ति, 'नेरइया णं भंते !' इत्यादि प्रश्नसूत्रं सुगमं, 'नेरइया णं भंते ! जे पोग्गला' इत्यादि, नैरयिका णमितिपूर्ववत् , भदन्त ! यान् पुद्गलान् आहारतया गृहन्ति नैरयिकाः तेषां गृहीतानां पुद्गलानां 'सेकालंसि' एण्यत्काले ग्रहणकालोत्तरकालमित्यर्थः 'कइभागं'ति कतिथं भागमाहारयन्ति-आहारतयोपभुञ्जते , तथा 'कतिभागं' कतिथं भागमाहार्यमाणपुद्गलानामाखादं गृह्णन्ति, नहि सर्वे पुद्गला आहार्यमाणा आखादमायान्तीति पृथक प्रश्नः, भगवानाह-गौतम ! असङ्ख्येयं भागमाहारयन्ति, अन्ये तु गवादिप्रथमबृहद्ग्रासग्रहण इव परिशटन्ति, आहार्यमाणानां | पुद्गलानामनन्तभागमाखादयन्ति, शेषास्त्वनासादिता एव शरीरपरिणाममापद्यन्ते इति, 'नेरइया णं भंते।' इत्यादि, || नरयिकाःणमिति पूर्ववत् यान् पुदलान् आहारतया गृह्णन्ति, इह ग्रहणं विशिष्टमवसेयं, ततो ये उज्झितशेषाः। ॥५०३॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy