________________
प्रज्ञापनाया मलय० वृत्तौ .
॥४९१॥
योग्यविशुद्ध्यमानपरिणामोऽनुत्तरसुरायुर्वन्धकः, मानुषी तु सप्तमनरकपृथिवीयोग्यमायुर्न बाति अनुत्तरसुरायुस्तु बभ्रातीति तत्सूत्रे सर्व प्रशस्तं ज्ञेयं, इह अतिविशुद्ध आयुर्बन्धमेव न करोतीति तत्प्रायोग्यग्रहणं, शेषं कण्ठ्यम् ॥ इतिश्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां त्रयोविंशतितमं कर्मप्रकृत्याख्यं पदं परिसमाप्तम् ॥
अथ चतुर्विंशतितमं कर्मप्रकृतिबन्धपदं ॥ २४ ॥
401610
व्याख्यातं त्रयोविंशतितमं पदं, सम्प्रति चतुवैिशतितममारभ्यते - तस्य चायमभिसम्बन्धः - इहानन्तरपदे कर्मबन्धादिरूपः परिणामविशेषश्चिन्तितः, स एव वक्ष्यमाणेष्वपि चतुर्षु पदेषु क्वचित् चिन्त्यते, तत्र चतुर्विंशतितमस्य पदस्येदमादि सूत्रम् —
कति णं भंते ! कम्मपगडीओ पण्णत्ताओ ?, गो० ! अट्ठ कम्मपगडीओ पण्णत्ताओ, तं० - णाणावरणिजं जाव अंतरा - इयं, एवं नेरइयाणं जाव वेमाणियाणं । जीवे णं भंते ! णाणावरणिजं कम्मं बंधमाणे कति कम्मपगडीतो बंधइ १, गो० ! सत्तविहबंध वा अट्ठविह० छविहबंधते वा, नेरइए णं भंते ! णाणावरणिजं कम्मं बंधमाणे कति कम्मपगडीतो बंधति ?, गो० ! सत्तविहबंध वा अट्ठविह, एवं जाव वेमाणिते, णवरं मणुस्से जहा जीवे, जीवा णं भंते ! णाणावरणिअं कम्मं
Jain Education International
For Personal & Private Use Only
२४ कर्मबन्धपदं
॥४९१॥
www.jainelibrary.org