________________
प्रज्ञापनाया: मलय० वृत्ती.
॥४८२ ॥
सु. २९४
नेणं सागरराव मस्स पंच अट्ठावीसहभागा पलिओवमस्स असंखेजइभागेण ऊणगा' इति, हारिद्रवर्णनानो हि सार्द्धा द्वादशसागरोपमकोटी कोटयः, तथा चोक्तमन्यत्रापि — “सुकिलसुरभिमडुराण दस उ तहा सुभगउण्डफासाणं । अहाइजपबुट्टी अंबिलहालिहपुत्राणं ॥ १ ॥” [ शुक्लसुरभिमधुराणां दशैव तथा सुभगोष्णस्पर्शयोः सार्धद्वयप्रवृ- 8 स्थितिः द्धिरम्लहारिद्रपूर्वाणाम् ॥ १ ॥ ] तासां मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागो हियते, तत्र शून्येन शून्यस्य पातनात्तेन उपरितनो राशिः सांश इति सामस्त्येन चतुर्भागकरणार्थ चतुर्भिर्गुण्यते जाताः पञ्चाशत्, अधस्तनोऽपि सप्ततिलक्षणच्छेदराशिचतुर्भिर्गुण्यते जाते द्वे शते अशीत्यधिके, ततो भूयोऽपि शून्यं शून्येन पातनालब्धाः पञ्च अष्टाविंशतिभागाः | ते पल्योपमासङ्ख्येयभागहीनाः क्रियन्ते, आगतं सूत्रोक्तं परिमाणं, अनेनैव गणितक्रमेण लोहितवर्णनाम्नो जघन्यस्थितौ षट् अष्टाविंशतिभागाः पल्योपमासङ्ख्येयभागहीनाः, उत्कर्षतस्तस्य स्थितेः पञ्चदश सागरोपमकोटीकोटीप्रमाणत्वात्, नीलवर्णनाम्नः सप्ताष्टाविंशतिभागाः पल्योपमासङ्ख्येयभागहीनाः, उत्कर्षतस्तस्य स्थितेः सार्द्ध सप्तदशसागरोपमकोटीकोटीप्रमाणत्वात्, 'कालवण्णनामाए जहा सेवट्ठसंघयणस्से ति सेवार्त्त संहननस्येव जघन्यतो द्वौ सागरोपमस्य सप्तभागौ पल्योपमासङ्ख्येयभागहीनौ उत्कर्षतो विंशतिसागरोपमकोटीकोटयः कृष्णवर्णनाम्नोऽपि वक्तव्या इति भावः, सुरभिगन्धनाम्नः शुक्लवर्णनाम्न इव, 'सुक्किलसुरभिमहुराण दस उ' इति वचनात्, दुरभिगन्धनाम्नो यथा सेवार्त्तसंहननस्य तच्चानन्तरमेवोक्तमिति न पुनरुच्यते, 'रसाणं महुरादीणं
Jain Education International
२३ कर्मचन्धपदे क
For Personal & Private Use Only
॥४८२॥
www.jainelibrary.org