________________
मथैः, 'पुद्गलपरिणामं वा' इति यं वा पुद्गलपरिणाममभ्यवहताहारपरिणामरूपं पानीयरसादिकमतिदुःखजनकं वेद-15 यते तेन वा ज्ञानपरिणत्युपहननात् तथा-वीससा वा पोग्गलाणं परिणाम मिति विस्रसया यः पुद्गलानां प णामः शीतोष्णातपादिरूपस्तं वेदयते यदा तदा तेनेन्द्रियोपघातजननद्वारेण ज्ञानपस्णितावुपहतायां ज्ञातव्यमे न्द्रियकमपि सद्वस्तु न जानाति, ज्ञानपरिणतेरुषहतत्वात् , अयं सापेक्ष उदय उक्तो, निरपेक्षस तु विषये सूत्रमि|दम्-'तेसिं वा उदएणति तेषां या ज्ञानावरणीयकर्मपुद्गलानां विपाकप्रासानामुदयेन ज्ञातव्यं न जानाति 'जाणिउकामेविन याणइ' इति ज्ञानपरिणामेन परिणंतुमिच्छन्नपि ज्ञानपरिणत्युपघातान्न जानाति, 'जाणित्ताविन याणई' इति, प्राक् ज्ञात्वाऽपि पश्चान्न जानीते, तेषामेव ज्ञानावरणीयकर्मपुरलानामुदयात्, 'उच्छन्ननाणी यावि भवई' इत्यादि, ज्ञानावरणीयस्य कर्मण उदयेन जीव उच्छन्नज्ञान्यपि भवति, उच्छन्नं च तद् ज्ञानं च उच्छन्नज्ञानं तदस्यास्तीति उच्छन्नज्ञानी, सर्वधनादिपाठाभ्युपगमादिन् , यावत्शक्तिप्रच्छादितज्ञान्यपि भवतीत्यर्थः, 'एस णं गोयमा ! णाणावरणिजे कम्मे' इत्याद्युपसंहारवाक्यं कण्ठ्यं, 'दसणावरणिजस्स गंभंते !' इत्यादि प्रश्नसूत्रं पूर्ववत्, निर्वचनमाह-गौतम ! नवविधः प्रज्ञप्तः, तदेव नवविधत्वं दर्शयति-निद्रा' इत्यादि, निद्राशब्दार्थमने वक्ष्यामो, भावार्थस्त्वयम्-"सुहपडिबोहा निहा दुहपडिबोहा य निद्दनिहा य । पयला होइ ठियस्स उ पयलपयला य चंकमतो॥१॥थीणगिद्धी पुण अइसंकिलिट्टकम्माणवेयणे होइ । महणिहा दिणचिंतियवावारपसाहणी
Peeroeseseeeeeeeeeटरव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org