SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मल- य०वृत्ती. प्रकृति ॥४५३॥ 'कइ पगडी' इत्यादि, कति प्रकृतयो भवन्तीत्यादि प्रथमोऽधिकारः, तथा कथं-केन प्रकारेण ताः प्रकृतीब- २३कर्मप्रभातीति द्वितीयः, कतिभिः स्थानैबधातीति तृतीयः, कति प्रकृतीर्वेदयते इति चतुर्थः, कस्य कर्मणः कतिविधोऽनु- कृतिपदे भागः पञ्चमः। तत्र प्रथमाधिकारनिरूपणार्थमाह-'कति णं भंते ! कम्मपयडीओ पण्णत्ताओं' इति, ननूक्तमेव क्रियापदे कति कर्मप्रकृतय इति ततः किमर्थमिह प्रकृतिसङ्ख्यार्थः प्रश्नः ?, उच्यते, विशेषप्रतिपादनार्थः, स चायंन्धश्च सू. विशेषः-पूर्व ज्ञानावरणीयादि कर्म बनन् कतिमिः क्रियाभियुज्यते इत्युक्तं, क्रियाश्च प्राणातिपातहेतवः, प्राणाति-18|२८८-२८९ पातश्च बाह्यं ज्ञानावरणीयादिकर्मबन्धकारणं, कर्मबन्धः कार्य, इह तु ज्ञानावरणीयादिकर्म एवान्तरं कर्मवन्धका-15 रणं प्रतिपाद्यमिति, भगवनिर्वचनमाह-गौतम ! अष्टौ कर्मप्रकृतयः प्रज्ञताः, एता एव नामग्राहं दर्शयति'ज्ञानावरणीयं दर्शनावरणीयं' इत्यादि, ज्ञायते-परिच्छिद्यते वस्त्वनेनेति ज्ञानं-सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधः, आत्रियते-आच्छाद्यते अमेनेत्यावरणीयं 'कृद्धहुल'मिति वचनात् करणेऽनीयप्रत्ययः, ज्ञानस्यावरणीयं ज्ञानावरणीयं, दृश्यतेऽनेनेति दर्शनं-सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधः, उक्तं च-"जं सामन्नग्गहणं भावाणं नेय कट्ट आगारं। अविसेसिऊण अत्थे दंसणमिइ वुच्चए समए ॥१॥" [यत् सामान्यग्रहणं भावानां नैव कृत्वाऽऽकारम् । अर्थानविशेष्य दर्शनमित्युच्यते समये ॥१॥] तस्यावरणीय दर्शनावरणीयं, तथा वेद्यते-आहादादिरूपेण यदनुभूयते तदनीय, अत्र कर्मण्यनीयः, यद्यपि च सर्व कर्म वेद्यते ॥४५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy