________________
प्रज्ञापनाया: मलयवृत्ती.
रक्रियापदं विरतानामारम्भिक्यादिःक्रियाणामल्पब
॥४५२॥
न भवति, मायाप्रत्ययाऽप्यनिवृत्तवादरसम्परायं यावद्भाविनी परतो न भवति, अप्रत्याख्यानक्रियाऽपि अविरतस- म्यग्दृष्टिं यावन्न परतः, तत एता अपि क्रिया अधिकृत्य 'सिय कजइ सिय नो कज्जई' इति वक्तव्यं, तथा चाह- 'एवं जाव अपञ्चक्खाणकिरिया' इति, मिथ्यादर्शनप्रत्यया पुनर्निषेध्या, मिथ्यादर्शनविरतस्य तस्या असम्भवात्, चतुर्विंशतिदण्डकचिन्तायां नैरयिकादीनां स्तनितकुमारपर्यन्तानां चतस्रः क्रिया वक्तव्याः, मिथ्यादर्शनप्रत्यया निषेध्या, तिर्यपञ्चेन्द्रियस्याद्यास्तिस्रः क्रिया नियमतो वक्तव्याः, अप्रत्याख्यानक्रिया भाज्या, देशविरतस्य न भवति | | शेषस्य भवतीत्यर्थः, मिथ्यादर्शनप्रत्यया निषेध्या, मनुष्यस्य यथा सामान्यतो जीवस्य, व्यन्तरादीनां यथा नैरयिकस्य । सम्प्रत्यासामवारम्भिक्यादीनां क्रियाणां परस्परमल्पबहुत्वमाह-एएसिणं भंते !' इत्यादि, सवेस्तोका मिथ्यादशेनप्रत्यया क्रिया, मिथ्यादृष्टीनामेव भावात, ततोऽप्रत्याख्यानक्रिया विशेषाधिका, अविरतसम्यग्दृष्टीनां | मिथ्यादृष्टीनां च भावात् , ताभ्योऽपि पारिग्राहिक्यो विशेषाधिकाः, देशविरतानां पूर्वेषां च भावात् , आरम्भिक्यो विशेषाधिकाः, प्रमत्तसंयतानां पूर्वेषां च भावातू, ताभ्योऽपि मायाप्रत्यया विशेषाधिकाः, अप्रमत्तसंयतानामपि भावात् ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां द्वाविंशतितमं क्रियापदं समाप्तम् ॥२२॥
हुत्वं सू.
॥४५२॥
Main Education International
For Personal & Private Use Only
www.jainelibrary.org