________________
क्रिया तस्यारम्भिकी नियमात्, अप्रत्याख्यानिनोऽवश्यमारम्भसम्भवात् एवं मिथ्यादर्शनप्रत्यययापि सहाविनाभावो भावनीयः, तथाहि - यस्यारम्भिकी क्रिया तस्य मिथ्यादर्शनप्रत्यया स्याद्भवति स्यान्न भवति, मिथ्यादृष्टेर्भ - वति शेषस्य न भवतीत्यर्थः, यस्य तु मिथ्यादर्शनक्रिया तस्य नियमादारम्भिकी, मिथ्यादृष्टेरविरतत्वेनावश्यमारम्भसम्भवात्, तदेवमारम्भिकी क्रिया पारिग्राहिक्यादिभिश्चतसृभिरुपरितनीभिः क्रियाभिः सह परस्परमविनाभावेन चिन्तिता, एवं पारिग्राहिकी तिसृभिर्मायाप्रत्यया द्वाभ्यामप्रत्याख्यानक्रिया एकया मिथ्यादर्शनप्रत्ययया चिन्तनीया, तथा चाह - ' एवं पारिग्गहियावि तिहिं उवरिल्लाहिं समं संचारेयवा' इत्यादि सुगमं, भावनायाः सुप्रतीतत्वात् । अमुमेवार्थ चतुर्विंशतिदण्डकक्रमेण निरूपयति- 'नेरइयस्स आइलातो चत्तारि' इत्यादि, नैरयिकाधुत्कर्षतोऽप्यविरतसम्यग्दष्टिगुणस्थानकं यावन्न परतः ततो नैरविकाणामाद्याश्चतस्रः क्रियाः परस्परमविनाभाविन्यः, | मिथ्यादर्शनक्रियां प्रति स्याद्वादः, तमेवाह - 'जस्स एयाओ चत्तारि' इत्यादि, मिथ्यादृष्टेर्मिध्यादर्शनक्रिया भवति | शेषस्य न भवतीति भावः यस्य पुनर्मिथ्यादर्शनक्रिया तस्याद्याश्चतस्रो नियमात्, मिथ्यादर्शने सत्यारम्भिक्यादीनामवश्यंभावात् एवं तावद्वक्तव्यं यावत्स्तनितकुमारस्य । पृथिव्यादीनां चतुरिन्द्रियपर्यवसानानां पञ्च क्रियाः परस्परमविनाभाविन्यो वक्तव्याः, पृथिव्यादीनां मिथ्यादर्शनक्रियाया अप्यवश्यंभावात् तिर्यक्पञ्चेन्द्रियस्याद्यास्तिस्रः परस्परमविनाभूता देशविरतिं यावदासामवश्यंभावात्, उत्तराभ्यां तु द्वाभ्यां स्याद्वादः, तमेव दर्शयति - 'जस्स
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org