SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया:मलय.वृत्ती. ॥३७६॥ aeeeeeeeeeeeeeee देवीसूत्रे उत्कर्षतः पञ्चपञ्चाशत्पल्योपमानीति, देवीनां भवस्थितेरुत्कर्षतोऽप्येतावत्प्रमाणत्वात् , एतच्चेशानदेव्यपे- १८कायक्षया द्रष्टव्यं, अन्यत्र देवीनामेतावत्याः स्थितेरसंभवात् । सिद्धसूत्रे साद्यपर्यवसित इति, सिद्धत्वस्य क्षयासंभवात् , स्थितिपदं | सिद्धत्वाद्धि च्यावयितुं ईशा रागादयो, न च ते भगवतः सिद्धस्य संभवन्ति, तन्निमित्तकर्मपरमाण्वभावात् , तदभा वश्च तेषां निर्मूलकाकषितत्वात् ॥ सम्प्रत्येतावतो नैरयिकादीन् पर्याप्तापर्याप्त विशेषणद्वारेण चिन्तयन्नाह-'नेर ६ एणं भंते !' इत्यादि, नैरयिको भदन्त ! अपर्याप्त इति-अपर्याप्सत्वपर्यायविशिष्टोऽविच्छेदेन कालतः कियन्तं कालं & यावद्भवति ?, भगवानाह-गौतम ! इत्यादि, इहापर्याप्तावस्था जघन्यत उत्कर्षतश्चान्तर्मुहूर्तप्रमाणा, तत ऊर्ल्ड & नरयिकाणामवश्यं पर्याप्तावस्थाभावात् , तत उक्तं 'जहन्नेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं'। 'एवं जाव देवी अपजत्तिया' इति, एवं-नैरयिकोक्तेन प्रकारेणापर्याप्सास्तिर्यगादयस्तावद्वक्तव्याः यावद्देव्यपर्यासिका, अपर्याप्तकदेवीसूत्रं यावदित्यर्थः, तत्र तिर्यञ्चो मनुष्याश्च यद्यप्यपर्याप्तका एव मृत्वा भूयो भूयोऽपर्याप्तत्वेनोपपद्यन्ते तथापि तेषामपर्याप्तावस्था नैरन्तर्येणोत्कर्षतोऽपि अन्तर्मुहूर्त्तप्रमाणैव लभ्यते, यद्वक्ष्यति 'अपजत्तए णं भंते ! अपजत्तएत्ति कालतो केवच्चिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं' इति, देवदेवीसूत्रे अन्तर्मुहूर्तभावना ॥३७६॥ नैरयिकवत् वक्तव्या । 'नेरइयपजत्तए णं भंते !' इत्यादि, नैरयिकपर्याप्त इति-पर्याप्तो नैरयिक इत्येवमविच्छेदेन । कालतः कियचिरं भवति ?, भगवानाह-गौतम ! जघन्यतो दश वर्षसहस्राण्यन्तर्मुहूर्तोनानि, अन्तर्मुहूर्तस्याद्यस्या 18090888999 dain Education relational For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy