________________
ISIतिरिक्खजोणिणी णं भंते !' इत्यादि, इहोत्तरत्र च जघन्यान्तर्मुहूर्त्तभावना प्रागुक्तान्तर्मुहूर्तभावनानुसारेण खयं ।
भावनीया, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि, कथं इति चेत् !, उच्यते, इह तिर्यानुष्याणां सम्ज्ञिपञ्चेन्द्रियाणामुत्कर्षतोऽप्यष्टौ भवाः कायस्थितिः “नरतिरियाण सत्तट्ट भवा" [नरतिरश्चां सप्ताष्टौ(वा) भवाः ] इति वचनात् , तत्रोत्कर्षस्य चिन्त्यमानत्वात् अष्टावपि भवा यथासंभवमुत्कृष्टस्थितिकाः परिगृह्यन्ते, असध्येयवर्षायुष्कस्तु मृत्वा नियमतो देवलोकेषूत्पद्यते न तिर्यक्षु, ततः सप्त भवाः पूर्वकोट्यायुषो वेदितव्याः अष्टमस्तु पर्यन्तवर्ती देवकुर्वादिग्विति त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि भवन्ति ‘एवं मणुस्सेवि मणुस्सीवि' इति, एवं-तिर्यस्त्रीगतेन प्रकारेण मनुष्योऽपि मानुष्यपि च वक्तव्या, किमुक्तं भवति ?-मनुष्यसूत्रे मानुषीसूत्रे च जघन्यतोऽन्तर्मुहूर्त उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि वक्तव्यानीति, सूत्रपाठस्त्वेवं-'मणुस्से णं भंते ! मणुस्सत्ति कालओ केवचिरं होइ?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइं पुत्वकोडीपुहुत्तमभहियाई, मणुस्सी गं भंते ! मणुस्सित्ति कालओ केवच्चिरं होई' इत्यादि, देवसूत्रे 'जहेव नेरइए' इति, यथैव नैरयिकः प्रागुक्तः तथैव देवोऽपि वक्तव्यः, देवस्थापि जघन्यतो दश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि वक्तव्यानीति भावः, देवा अपि हि खभवाच्युत्वा न भूयोऽनन्तरं देवत्वेनोपपद्यन्ते “नो देवे देवेसु उववजई" [न देवो देवेषूत्पद्यते ] इति वचनात् , ततो यदेव देवानामपि भवस्थितेः परिमाणं तदेव कायस्थितेरपि,
Recenecessocceleseरिटिशरिर
ASSISोगुक्तः तथैव देवोऽपि वक्तव्य
भयोऽनन्तरं देवत्वेनोपपयन्तास्थितेरपि,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org