________________
२१शरीर
प्रज्ञापनाया:मलय. वृत्तौ.
॥४२४॥
श्रुतमवगाहमानः श्रुतसामर्थ्यतस्तीव्रतीव्रतरशुभभावनामधिरोहन अप्रमत्तः सन् , उक्तं च-"अवगाहते च स श्रुतजलधिं प्राप्नोति चावधिज्ञानम् । मानसपर्यायं वा ज्ञानं कोष्ठादिबुद्धीवा ॥१॥चारणवैक्रियसौषधिताद्या वाऽपि लब्धयस्तस्य । प्रादुर्भवन्ति गुणतो बलानि वा मानसादीनि ॥२॥" अत्र 'स' इत्यप्रमत्तसंयतः, मानसपर्यायमिति-मानसाः-मनसः सम्बन्धिनः पर्याया-विषया यस्य तन्मानसपर्यायं मनःपर्यायज्ञानमित्यर्थः, कोष्ठादिबुद्धीर्वा इत्यत्रादिशब्दात् पदानुसारिवीजपरिग्रहः, तिस्रो हि बुद्धयः परमातिशयरूपाः प्रवचने प्रतिपाद्यन्ते, तद्यथाकोष्ठबुद्धिः १ पदानुसारिबुद्धिः २ बीजबुद्धि ३ श्च, तत्र कोष्ठक इव धान्यं या बुद्धिराचार्यमुखाद्विनिर्गतौ तदवस्थानौ च सूत्रार्थों धारयति न किमपि तयोः कालान्तरे गलति सा कोष्ठबुद्धिः १, या पुनरेकमपि सूत्रपदमवधार्य शेषमश्रुतमपि तदवस्थमेव श्रुतमवगाहते सा पदानुसारिणी २, या पुनरेकमर्थपदं तथाविधमनुसृत्य शेषमश्रुतमपि यथावस्थितं प्रभूतमर्थमवगाहते सा बीजबुद्धिः ३, सा च सर्वोत्तमप्रकर्षप्राप्ता भगवतां गणभृतां, ते हि उत्पादादिपदत्रयमवधार्य सकलमपि द्वादशाङ्गात्मकं प्रवचनमभिसूत्रयन्ति, तथा चारणाश्च वैक्रियं च सर्वोषध्यश्च तद्भावश्च चारणवैक्रियसौषधिता, तत्र चरणं-गमनं तद्विद्यते येषां ते चारणाः 'ज्योत्स्नादिभ्योऽणि'ति मत्वर्थीयोऽण् प्रत्ययः, तत्र गमनमन्येषामपि मुनीनां विद्यते ततो विशेषणान्यथानुपपत्त्या चरणमिह विशिष्टं गमनमभिगृह्यते, अत एव चातिशायने मत्वर्थीयो, यथा रूपवती कन्या इत्यत्र, ततोऽयमर्थः-अतिशायिचरणसमर्थाश्चारणाः, आह च भाष्य
॥४२४॥
SEA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org