________________
कायस्थितिरिति कः शब्दार्थः १, उच्यते, काय इह पर्यायः परिगृह्यते, काय इव काय इत्युपमानात् , स च द्विधासामान्यरूपो विशेषरूपश्च, तत्र सामान्यरूपो निर्विशेषणो जीवत्वलक्षणः विशेषरूपो नैरयिकत्वादिलक्षणः तस्य स्थितिः-अवस्थानं कायस्थितिः, किमुक्तं भवति ?-सामान्यरूपेण विशेषरूपेण वा पर्यायेणादिष्टस्य जीवस्य यदव्यवच्छेदेन भवनं सा कायस्थितिः, ततः प्रथमतः सामान्यरूपेण पर्यायेणादिष्टस्याव्यवच्छेदेन यद् भवनं तचिचिन्तयिषुराह-'जीवे णं भंते!' इत्यादि, इह जीवनपर्यायविशिष्टो जीव उच्यते, ततःप्रश्नयति-जीवा 'णं' इति वाक्यालङ्कारे भदन्त ! जीव इति जीवनपर्यायविशिष्टतया इत्यर्थः 'कालतः' कालमधिकृत्य 'कियचिरं' कियन्तं कालं यावद्भवति ?, भगवानाह-गौतम ! 'सर्वाद्धां' सर्वकालं यावत् , कथमिति चेत् ?, उच्यते, इह जीवनमुच्यते | प्राणधारणं, प्राणाश्च द्विधा-द्रव्यप्राणा भावप्राणाश्च, द्रव्यप्राणा इन्द्रियपञ्चकबलत्रिकोच्छ्वासनिःश्वासायुःकर्मानुभवलक्षणाः, भावप्राणाः ज्ञानादयः, तत्र संसारिणामायुःकर्मानुभवलक्षणप्राणधारणं सदैवावस्थितं, न हि सा काचिदवस्था संसारिणामस्ति यस्थामायुःकानुभवनं न विद्यते इति, मुक्तानां तु ज्ञानादिरूपप्राणधारणमवस्थितं,1% मुक्तानामपि हि ज्ञानादिरूपाः प्राणाः सन्ति, यैर्मुक्तोऽपि द्रव्यप्राणैः जीवतीति व्यपदिश्यते, ते च ज्ञानादयो मुक्तानां शाश्चतिकाः, अतः संसार्यवस्थायां मुक्तावस्थायां च सर्वत्र जीवनमस्तीति सर्वकालभावी जीवनपर्यायः॥ सम्प्रति तस्यैव जीवस्य नैरयिकत्वादिपर्यायैरादिष्टस्य तैरेव पर्यायैरव्यवच्छेदेनावस्थानं चिन्तयन्नाह-'नेरइए णं भंते!'
888888888890
dain Education International
For Personal & Private Use Only
Kinjalnelibrary.org