________________
पमाणि (स्थितिः) तेषामेतावती, येषां पुनस्तत्र एकोनत्रिंशत्सागरोपमाणि तेषां भवधारणीया द्वौ हस्तौ द्वौ च हस्तस्यै-18 कादशभागी, अष्टमेऽपि वेयके येषां स्थितिरेकोनत्रिंशत्सागरोपमाणि तेषामेतावत्प्रमाणा, येषां पुनस्तत्र त्रिंशत्सागरोपमाणि स्थितिस्तेषां द्वौ हस्ती एकश्च हस्तस्यैकादशो भागो भवधारणीया, नवमे ग्रेवेयके येषां स्थितिस्त्रिंशत्सागरोपमाणि तेषां भवधारणीया एतावत्प्रमाणा, येषां पुनरेकत्रिंशत्सागरोपमाणि तत्र स्थितिस्तेषां परिपूर्णों द्वौ हस्तो भवधारणीया, 'एवं अणुत्तरे' इत्यादि, एवं ग्रैवेयकोक्तेन प्रकारेण अनुत्तरोपपातिकदेवानामपि सूत्रं वक्तव्यं, नवरमुत्कर्षतो भवधारणीया एका रनिः-हस्तो वक्तव्यः, एतच त्रयस्त्रिंशत्सागरोपमस्थितिकान् प्रति ज्ञातव्यं, येषां पुनर्विजयादिषु चतुर्पु विमानष्वेकत्रिंशत्सागरोपमाणि स्थितिस्तेषां परिपूर्णों द्वौ हस्तौ भवधारणीया, येषां पुनस्तत्रैव मध्यमा द्वात्रिंशत्सागरोपमाणि स्थितिस्तेषामेको हस्त एकश्च हस्तस्यैकादशभागो भवधारणीया, येषां पुनस्तत्र सर्वार्थसिद्धमहाविमाने त्रयस्त्रिंशत्सागरोपमाणि तेषामेको हस्तो भवधारणीया, जघन्या सर्वत्राङ्गुलासङ्ख्येयभागमात्रा ॥ तदेवमुक्तानि वैक्रियशरीरस्यापि विधिसंस्थानावगाहनाप्रमाणानि, सम्प्रत्याहारकस्य प्रतिपिपादयिषुराह
आहरगसरीरेणं भंते ! कतिविधे पन्नत्ते ?, गो० ! एगागारे पं०, जइ एगागारे किं मणूसआहारगसरीरे अमणूसआहारगसरीरे ?, गो० ! मणूसआहारगसरीरे नो अमणूसआ०, जइ मणूसआहा. किं संमुच्छिममणूसआहा० गम्भवतियमणूसआहा०, गो०! नो संमुच्छिममणूसआहा० गम्भवकंतियमणूसआहा०, जइ गम्भव० म० आ० किं कम्मभूमगग०
90888c0msasaerasad
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org