________________
एe
प्रज्ञापनाया: मलय०वृत्ती.
॥४२२॥
रोपमाणि स्थितिस्तेषामेतावत्येव भवधारणीया, येषां पुनरच्युते कल्पे द्वाविंशतिः सागरोपमाणि स्थितिस्तेषामुत्क- N२१शरीरपतो भवधारणीया परिपूर्णास्त्रयो हस्ताः, 'गेवेजकप्पातीते'त्यादि भावितं, नवरं 'उक्कोसेणं दो रयणीओ'त्ति एतन्नवमवेयके एकत्रिंशत्सागरोपमस्थितिकान् देवान् प्रति द्रष्टव्यं, शेषसागरोपमस्थितिष्वेवं-प्रथमे ग्रैवेयके येषां द्वाविंशतिः सागरोपमाणि स्थितिस्तेषां त्रयो हस्ता भवधारणीया, येषां पुनस्तत्रैव त्रयोविंशतिः सागरोपमाणि स्थितिस्तेषां द्वौ हस्तावष्टौ हस्तस्यैकादशभागाः, द्वितीयेऽपि ग्रैवेयके येषां त्रयोविंशतिः सागरोपमाणि स्थितिस्तेषामेतावती भवधारणीया, येषां पुनस्तत्र चतुर्विशतिः सागरोपमाणि स्थितिस्तेषां द्वौ हस्तौ सप्त च हस्तस्यैकादशभागा भवधारणीया, तृतीयेऽपि अवेयके येषां चतुर्विंशतिः सागरोपमाणि स्थितिस्तेषामेतावत्येव भवधारणीया, येषां पुनः पञ्चविंशतिः सागरोपमाणि तत्र स्थितिस्तेषां द्वौ हस्तौ षट् हस्तस्यैकादशभागा भवधारणीया, चतुर्थेऽपि वेयके येषां पञ्चविंशतिःसागरोपमाणि स्थितिस्तेषामेतावती भवधारणीया, येषां पुनस्तत्र षडविंशतिःसागरोपमाणि स्थितिस्तेषां द्वौ हस्तौ पञ्च हस्तस्यैकादशभागाः, पञ्चमेऽपि त्रैवेयके येषां पविंशतिः सागरोपमाणि तेषामेतावती भव-II धारणीया, येषां तु तत्र सप्तविंशतिः सागरोपमाणि तेषां द्वौ हस्तौ चत्वारो हस्तस्यैकादशभागा भवधारणीया, षष्ठेऽपि ग्रैवेयके येषां सप्तविंशतिः सागरोपमाणि तेषामतावत्येव भवधारणीया, येषां पुनस्तत्राष्टाविंशतिः सागरोप& माणि स्थितिस्तेषां द्वौ हस्तौ त्रयो हस्तस्यैकादशभागा भवधारणीया, सप्तमेऽपि अवेयके येषामष्टाविंशतिः सागरो
2020-202920292020
॥४२२॥
Jain Education Inter
www.jainelibrary.org
For Personal & Private Use Only
nal