SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ प्रतीतिपथमवतरन्ति तथा प्रतिपादयन्नाह — यथा अयोगोलो ध्मातः सन् तप्ततपनीयसंकाशः सर्वोऽभिपरिणतो भवति तथा निगोदजीवान् जानीहि निगोदरूपेऽप्येकैकस्मिन् शरीरे तच्छरीरात्मकतया अनन्तान् जीवान् परिणतान् जानीहि ॥ ९८ ॥ एवं च सति - एकस्य द्वयोस्त्रयाणां यावत्संख्येयानां वाशब्दादसंख्येयानां वा निगोदजीवानां | शरीराणि द्रष्टुं न शक्यानि, कुत इति चेत् ?, उच्यते-अभावात्, न हि एकादिजीवगृहीतानि अनन्तवनस्पतिशरीराणि सन्ति, अनन्तजीवपिण्डात्मकत्वात्तेषाम्, कथं तर्हि उपलभ्यानि ?, इत्यत आह- 'दीसंती' त्यादि, दृश्यन्ते शरीराणि निगोदजीवानां - बादरनिगोदजीवानां अनन्तानां न तु सूक्ष्मनिगोदजीवानां तेषां शरीराणामनन्तजीवसङ्घातात्मकत्वेऽप्यनुपलभ्यस्वभावत्वात्, तथासूक्ष्मपरिणामपरिणतत्वात्, अथ कथमेतदवसीयते - निगोदरूपशरीरं नियमादनन्तजीवपरिणामाविर्भावितं भवति ?, उच्यते - जिनवचनात्, तच्चेदम् 'गोला य असंखेज्जा होंति निगोया असंखया गोले । एक्केको य निगोओ अनंतजीवो मुणेयब्यो ॥ १ ॥ ॥ ९९ ॥ सम्प्रति एतेषामेव निगोदजीवानां प्रमाणमभिधित्सुराह - एकैकस्मिन् लोकाकाशप्रदेशे एकैकं निगोदजीवं स्थापय, एवमेकैकस्मिन् आकाशप्रदेशे एकैकजीवरचनया मीयमानाः 'अनन्तलोका' अनन्तलोकाकाशप्रमाणा निगोदजीवा भवन्ति ॥ १०० ॥ सम्प्रति प्रत्येकवनस्पतिजीवप्रमाणमाह-एकैकस्मिन् लोकाकाशप्रदेशे एकैकं प्रत्येक वनस्पतिजीवं स्थापय, एवमुक्तप्रकारेण मीयमानाः प्रत्ये१ गोलाश्वासंख्येया भवन्ति निगोदा असंख्येया गोलके । एकैकश्च निगोदोऽनन्तजीवो ज्ञातव्यः ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy