SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 'जस्सेत्यादि, यस्य मूलस्य भग्नस्य सतो भङ्गे-भङ्गप्रदेशे तु हीरो-विषमच्छेदमुद्दन्तुरं वा प्रदृश्यते-प्रकर्षेण स्पष्टरूपतया लक्ष्यते ततो मूलं 'परित्तजीवं' प्रत्येकशरीरजीवात्मकं ज्ञातव्यं, 'जे यावन्ने तहाविहा' इति, यान्यपि चान्यानि भग्नानि तथाप्रकाराणि अधिकृतसहीरभग्नमूलसदृशानि मूलानि तान्यपि प्रत्येकशरीरजीवात्मकानि मन्तव्यानि । एवं कन्दादिविषया अपि नव गाथा भावनीयाः, यत्र कुत्रापि लिङ्गव्यत्ययः स प्राकृतलक्षणादवसेयः। अधुना मूलादिगतानां वल्कलरूपाणामनन्तजीवत्वपरिज्ञानार्थ लक्षणमाह-यस्य मूलस्य काष्ठात्-मध्यसारात् छल्लीवल्कलरूपा बहुलतरा भवति सा अनन्तजीवा ज्ञातव्या, 'जे यावन्ना तहाविह'त्ति याऽपि चान्या अधिकृतया अनन्तजीवत्वेन निश्चितया छल्या समानरूपा छल्ली सापि तथाविधा-अनन्तजीवात्मिका ज्ञातव्या, एवं कन्दस्कन्धशाखाविषया अपि तिस्रो गाथाः परिभावनीयाः, अधुना तासामेव छल्लीनां प्रत्येकजीवत्वपरिज्ञानाय लक्षणमाह-'जस्स मूलस्से'त्यादि गाथाचतुष्टयं, यस्य मूलस्य काष्ठात्-मध्यसारात् छल्ली-वल्कलरूपा तनुतरा भवति सा 'परित्तजीवा' प्रत्येकशरीरजीवात्मिका द्रष्टव्या, 'जे यावन्ना तहाविहा' इति यापि चान्या अधिकृतया प्रत्येकशरीरजीवात्मकत्वेन निश्चितया छलया समानरूपा छल्ली सापि तथाविधा-प्रत्येकशरीरजीवात्मिका अवगन्तव्या, एवं कन्दादिविषया अपि तिस्रो गाथा भावनीयाः॥ यदुक्तम्-'जस्स मूलस्स भग्गस्स समो भङ्गो पदीसई' इत्यादि, तदेव लक्षणं स्पष्टं प्रतिपिपादयिषुरिदमाह 9929999999999289209 Educati onal For Personal & Private Use Only www.janelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy