________________
प्रज्ञापना
याः मल
य० वृत्तौ.
॥ ३५ ॥
तणुययरी भवे । परितजीवा उ सा छल्ली, जे यावन्ना तहाविहा ॥७८॥ जीसे सालाए कट्ठाओ, छल्ली तणुययरी भवे । परितजीवा उसा छल्ली, जे यावन्ना तहाविहा ॥ ७९ ॥ ( सू० २४ )
'से किं तमित्यादि, अथ के ते साधारणशरीरवादरवनस्पति कायिकाः ?, सूरिराह - साधारणशरीरबादरवनस्प|तिकायिका अनेकविधाः प्रज्ञप्ताः, तद्यथा - 'अवए' इत्यादि, एते च केचिदतिप्रसिद्धत्वात्केचिद्देशविशेषतः स्वयमवग - न्तव्याः । 'जे यावन्ने तहाविहा' इति, येऽपि चान्ये - उक्तव्यतिरिक्तास्तथाप्रकारा उक्तप्रकारास्तेऽपि अनन्तजीवा ज्ञातव्याः । 'तणे' त्यादि, तृणमूलं कन्दमूलं यच्चापरं वंशीमूलं, एतेषां मध्ये क्वचिजातिभेदतो देशभेदतो वा सङ्ख्याता जीवाः क्वचिदसङ्ख्याता अनन्ताश्च ज्ञातव्याः । 'सिंघाडगस्से'त्यादि, शृङ्गाटकस्य यो गुच्छः सोऽनेकजीवो भवति ज्ञातव्यः, त्वक्शाखादीनामनेकजीवात्मकत्वात्, केवलं तत्रापि यानि पत्राणि तानि प्रत्येकजीवानि, फले पुनः प्रत्येकमेकैकस्मिन् द्वौ द्वौ जीवौ भणितौ । 'जस्स मूलस्से'त्यादि, यस्य मूलस्य भग्नस्य सतः - समः - एकान्तसदृशरूपः चक्राकारो भङ्गः प्रकर्षेण दृश्यते तन्मूलमनन्तजीवमवसेयं । 'जे यावन्ने तहाविहा' इति, यान्यपि चान्यानि अभग्ना - नि तथाप्रकाराणि अधिकृतमूलभग्नसमप्रकाराणि तान्यप्यनन्तजीवानि ज्ञातव्यानि । एवं कन्दस्कन्धत्वशाखाप्रवा लपत्रपुष्पफलवीजविषया अपि नव गाथा व्याख्येयाः ॥ सम्प्रति प्रत्येकशरीरलक्षणाभिधानार्थं गाथादशकमाह -
Jain Education International
For Personal & Private Use Only
१ प्रज्ञापनापदे सा
धारणवन.
(सू. २४)
1134 11
www.jainelibrary.org