________________
एव फलं कटकतुम्बीफलं, खारतउसीति खारशब्दः कटुकवाची तथाऽऽगमे अनेकधा प्रसिद्धेः, ततः कटुका त्रपुषी। क्षारत्रपुषी तस्या एव फलं क्षारत्रपुषीफलं देवदाली-रोहिणी तस्या एव पुष्पं देवदालीपुष्पं मृगवालुङ्की-लोकतोऽवसेया तस्या एव फलं मृगवालुङ्कीफलं घोषातकी प्रसिद्धा तस्या एव फलं घोषातकीफलं कृष्णकन्दो-वज्रकन्दश्चानन्तकायवनस्पतिविशेषौ लोकतः प्रत्येतव्यो, एतावति उक्ते गौतमः पृच्छति-भगवन् ! भवेत् रसतः कृष्णलेश्या एतद्रूपा-निम्बादिरूपा ?, भगवानाह-गौतम ! नायमर्थः समर्थः, यतः कृष्णलेश्या इतो-निम्बादिरसमधिकृत्यानिष्टतरिकवेत्यादि प्राग्वत् । 'नीललेसाए' इत्यादि, भङ्गी-वनस्पतिविशेषः तस्या एव रजो भङ्गीरजः पाठाचित्रमूलके लोकप्रतीते पिप्पलीपिप्पलीमूलपिप्पलीचूर्णमरिचमरिचचूर्णशृङ्गबेरशृङ्गबेरचूर्णान्यपि प्रसिद्धानि । 'काउलेस्साए' इत्यादि, आम्राणां फलानामेवं सर्वत्रापि भावनीयं 'अंबाडयाण वा' इति आम्राटका:फलविशेषाः मातुलिङ्गबिल्वकपित्थपनसदाडिमानि प्रतीतानि पारापताः-फलविशेषाः अक्षोडवृक्षफलानि अक्षोडानि बोरवृक्षफलानि बोराणि-बदराणि तिन्दुकानि च प्रतीतानि, एतेषां फलानामपक्कानां, तत्र सर्वथापि अपक्कं फलमुच्यते तत आह–अपरिपाकानां न विद्यते परिपाकः-परिपूर्णः पाको येषां तान्यपरिपाकानि तेषामीषत्पकानामित्यर्थः, एतदेव वर्णादिभिः कथयति-वर्णेनातिविशिष्टेन गन्धेन घाणेन्द्रियनितिकरण स्पर्शन विशिष्टपरिपाकाविनाभाविना अनुपपेतानां-असम्प्राप्तानां यादृशो रसः, अत्र गौतमः पृच्छति-एतद्रूपा-एवंरूपरसोपेता
PEOPOS99299298994
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org