________________
ष्टराशिपारिजातकुसुमजपाकुसुम किंशुक पुष्पराशिर क्तोत्पलरक्ताशोक रक्तकणवीररक्तबन्धुजीवा लोकप्रतीताः 'भवे एयारूवा' इति पदयोजना प्राग्वत्, भगवानाह - 'गौतम ! णो इणट्ठे समट्ठे' यतस्तेजोलेश्या इतः - शशकरुधिरादिभ्यो लोहितेन वर्णेनेष्टतरिकैव, तत्र किञ्चिदकान्तमपि केषांचिदिष्टतरं भवति ततः कान्ततरताप्रतिपादनार्थमाह- कान्तत - रिकैव, केषाञ्चिदिष्टतरमपि स्वरूपतः कान्ततरमप्यपरेषामप्रियं भवति ततः प्रियतरता प्रतिपत्त्यर्थमाह-प्रियतरिकैव, अत एव मनोज्ञतरिका, मनोज्ञतरमपि किञ्चिन्मध्यमं संभवेदतः प्रकृष्टतरप्रकर्षविशेषप्रतिपादनार्थमाह – मनआपतरिकैव वर्णेन प्रज्ञप्ता, 'पम्हलेस्सा णं भंते ।' इत्यादि, अक्षरगमनिका प्राग्वत्, नवरं चम्पकः - सामान्यतः सुवर्णचम्पको - वृक्षविशेषः 'चम्पकछली इ वा' इति सुवर्णचम्पकत्वक् 'चम्पकभेए इ वा' इति सुवर्णचम्पकस्य भेदोद्विधाभावः भिन्नस्य हि वर्णप्रकर्षो भवति ततो भेदग्रहणं, हरिद्रा इह पिण्डहरिद्रा हरिद्रागुटिका - हरिद्रानिर्वर्त्ति ता गुटिका हरिद्राभेदो- हरिद्राया द्वैधीभावः हरितालो - धातुविशेषः हरितालगुटिका - हरितालमयी गुटिका हरितालभेदो- हरितालच्छेदः चिकुरः – पीतद्रव्यविशेषः चिकुररागः - तन्निष्पादितो वस्त्रादौ रागः 'सुवन्नसिप्पीइवा' इति सुवर्णमयी शुक्तिका, वरं - प्रधानं यत्कनकं तस्य निकषः – कषपट्टके रेखारूपः वरकनकनिकषः वरपुरुषः - वासुदेवस्तस्य वसनं - वस्त्रं वरपुरुषवसनं तद्धि पीतं भवतीत्युपात्तं अल्लकीकुसुमं लोकतोऽवसेयं चम्पककुसुमं - सुवर्णचम्पकवृक्षपुष्पं 'कन्नियारकुसुमेह वा' इति काञ्चनारककुसुमं कूष्माण्डका कुसुमं - पुष्पा (पुंस्फ)लिकापुष्पं सुव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org