________________
IS स्कन्धस्य प्रतिपत्तव्यं, अन्येषां तु स्कन्धाः प्रत्येकमनेकप्रत्येकशरीरजीवात्मका इति सामर्थ्यादवसेयं, 'खंधावि अणे
गजीविया' इति पूर्वमभिधानात् । अथ यदि प्रत्येकमनेकशरीरजीवाधिष्ठितास्ततः कथमेकखण्डशरीराकारा उपलभ्यन्ते इति ?, तदवस्थानखरूपमाह-'जह सगले'त्यादि, यथा सकलसर्षपाणां 'श्लेष्ममिश्राणां' श्लेष्मद्रव्यविमिश्रितानां वलिता वतिरेकरूपा भवति, अथ ते सकलसर्षपाः परिपूर्णशरीराः सन्तः पृथक्वखावगाहनयाऽवतिष्ठन्ते 'तथा' अनयैवोपमया प्रत्येकशरीराणां जीवानां शरीरसङ्घाताः पृथक्पृथक्खखावगाहना भवन्ति, इह श्लेषद्रव्यस्थानीयं रागद्वेषोपचितं तथाविधं कर्म सकलसर्षपस्थानीयाः प्रत्येकशरीराः, सकलसर्षपग्रहणं सर्षपवैविक्त्यप्रतिपत्त्या पृथक्खखावगाहकप्रत्येकशरीरवैविक्त्यप्रतिपत्त्यर्थे । अत्रैव दृष्टान्तान्तरमाह-'जह वे'त्यादि, वाशब्दो दृष्टान्तान्तरसूचने, यथा तिलशष्कुलिका-तिलप्रधाना पिष्टमयी अपूपिका बहुभिस्तिलैमिश्रिता सती यथा पृथक् २ खखावगाहतिलात्मिका भवति कथञ्चिदेकरूपा च 'तथा' अनयैवोपमया प्रत्येकशरीरिणां जीवानां शरीरसङ्घाताः कथञ्चिदेकरूपाः पृथक्खखावगाहनाश्च भवन्ति । उपसंहारमाह-सेत्तमित्यादि सुगम ॥ ‘से त्त'मित्यादि सुगमं । सम्प्रति साधारणवनस्पतिकायिकप्रतिपादनार्थमाहसे किं तं साहारणसरीरबादरवणस्सइकाइया?, साहारणसरीरबादरवणस्सइकाइया अणेगविहा पन्नत्ता, तं०-अवए पणए सेवाले लोहिणी मिहुत्थु हुत्थिभागा(य) । अस्सकन्नि सीहकन्नी सिंउढि तत्तो मुसुंढी य ॥४३॥ रुरु कुण्डरिया जीरु छीर
32009@essageDesORS
Jan EducaXL
For Personal & Private Use Only
Aljainelibrary.org