________________
यावत् पद्मलेश्या, किमुक्तं भवति ? - नीललेश्यः कापोतलेश्यः तेजोलेश्यः पद्मलेश्यश्च उक्तप्रकारेण द्वयोस्त्रिषु चतुर्षु वा ज्ञानेषु भणनीयः, स च एवं 'नीललेस्से णं भंते ! जीवे कइसु नाणेसु होज्जा १, गोयमा ! दोसु वा तिसु वा चउसु वा नाणेसु होज्जा' इत्यादि, शुक्ललेश्येषु विशेष इति तं पृथक् वक्ति - 'सुकलेसे णं भंते !' इत्यादि, इह शुक्लले| श्यायामेव केवलज्ञानं न लेश्यान्तरे ततः शेषलेश्या केभ्योऽस्य शुक्ललेश्यस्य विशेषः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां लेश्यापदस्य तृतीयोदेशकः ।
उक्तस्तृतीयोद्देशकः, सम्प्रति चतुर्थ आरभ्यते, तत्र चेयमादावधिकारगाथा
प्रथमं परिणामाधिकारः द्वितीयो वर्णाधिकारः तृतीयो रसाधिकारः चतुर्थो गन्धाधिकारः पञ्चमः शुद्धाशुद्धाधिकारः षष्ठः प्रशस्ता प्रशस्ताधिकारः सप्तमः संक्लिष्टासंक्लिष्टाधिकारः अष्टम उष्णशीताधिकारः नवमो गत्यधिकारः दशमः परिणामाधिकारः एकादशोऽप्रदेशः प्रदेशप्ररूपणाधिकारः द्वादशोऽवगाहाधिकारः त्रयोदशो वर्गणाधिकारः | चतुर्दशः स्थानप्ररूपणाधिकारः पञ्चदशोऽल्पबहुत्वाधिकारः । तत्र प्रथमं परिणामलक्षणमभिधित्सुर्यासां परिणामो वक्तव्यः ता एव लेश्याः प्रतिपादयति
परिणामवन्नरसगंधसुद्धअपसत्थसंकिलिगुन्हा | गतिपरिणामपदे सोगाढवग्गणठाणाणमप्पबहुं ॥ १ ॥ कइ णं भंते ! लेसाओ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org