________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥३५४॥
[ अन्तर्मुहूर्त्ते गतेऽन्तर्मुहूर्त्ते शेष आयुषि (एव) । लेश्यापरिणामे जीवा ब्रजन्ति परलोकम् ॥ १ ॥ ] इति वचनात्, तत उक्तं 'गोयमा ! कण्हलेसे पुढविकाइए कण्हलेसेस पुढविकाइएसु उववज्जर सिय कण्हलेसे उबट्टर' इत्यादि, एवं नीललेश्याविषयं कापोतलेश्याविषयं च सूत्रं वक्तव्यं, तथा यदा भवनपतिव्यन्तरज्योतिष्कसौधम्र्मेशानदेवाः तेजोलेश्यावन्तः खभवाच्युत्वा पृथिवीकायिकेषूत्पद्यन्ते तदा कियत्कालम पर्याप्तावस्थायां तेषु तेजोलेश्याऽपि लभ्यते तत ऊर्द्ध तु न भवति, तथा भवस्वभावतया तेजोलेश्यायोग्यद्रव्यग्रहणशक्त्यसम्भवात् ततस्तेजोलेश्यासूत्रे उक्तं'ते उल्लेसे उववज्जइ नो चेव णं तेउलेसे उबवट्टइ' इति, यथा च पृथिवीकायिकानां चत्वारि सूत्राण्युक्तानि तथाऽकायिकवनस्पतिकायिकानामपि वक्तव्यानि तेषामध्यपर्याप्तावस्थायां तेजोलेश्यासंभवात्, तेजोवायुद्वित्रिचतुरिन्द्रियविषयाणि प्रत्येकं त्रीणि सूत्राणि वक्तव्यानि तेषां तेजोलेश्याया असम्भवात् ॥ पञ्चेन्द्रियतिर्यग्योनिका मनुष्याश्च यथाऽऽद्यासु तिसृषु लेश्यासु पृथिवीकायिका उक्ताः तथा षट्खपि लेश्यासु वक्तव्याः, षण्णामप्यन्यतमया लेश्यया तेषामुत्पत्तिसम्भवात् उत्पत्तिगतकै कलेश्याविषये चोद्वर्त्तनायां षण्णां विकल्पानां सम्भवात्, सूत्रपाठ - चैवं - ' से नूणं भंते ! कण्हलेसे पंचिंदियतिरिक्खजोणिए कण्हलेसेसु पंचिंदियतिरिक्खजोणिएसु उववज्जइ कण्हलेसेसु उबवट्टर जलेसे उववज्जइ तलेसे उबवट्टइ ?, हंता गोयमा !, कण्हलेसे पंचिंदियतिरिक्खजोणिए कण्हलेसेसु पंचिंदियतिरिक्खजोगिएसु उववजह सिय कण्हलेसे उवबट्टइ सिय नीललेसे उबबट्टद्द सिय काउलेसे उब
Jain Education International
For Personal & Private Use Only
१७लेश्यापदे उद्देशः
३
॥३५४॥
www.jainelibrary.org