________________
वीतरागसंयता-उपशान्तकषायाः क्षीणकषायाश्च 'अकिरिया' इति वीतरागत्वेनारम्भादीनां क्रियाणामभावात् , 'एगा मायावत्तिया' इति अप्रमत्तसंयतानामेकैव मायाप्रत्यया क्रिया 'कजईत्ति क्रियते भवति, कदाचिदुड्डाहरक्षणप्रवृत्तानाम् , अक्षीणकषायत्वात् , 'आरंभिया मायावत्तिया' इति प्रमत्तसंयतानां हि सर्वः प्रमत्तयोग आरम्भ इति भवत्यारम्भिकी क्रिया अक्षीणकषायत्वाच्च मायाप्रत्ययेति, 'सेसं जहा नेरइयाण'मिति शेषमायुर्विषयं सूत्रं यथा नैरयिकाणां तथा वक्तव्यं, तच्च सुगमत्वात् वयं भावनीयं । वाणमंतराणं जहा असुरकुमाराणं, एवं जोइसियवेमाणियाणवि, नवरं ते वेदणाए दु० ५० तं०–माइमिच्छदिट्ठीउववनगा य अमाइसम्मदिट्ठीउववनगा य, तत्थ णं जे ते माईमिच्छदिट्ठीउववनगा ते णं अप्पवेदणतरागा तत्थ णं जे ते अमाईसम्मदिट्ठीउववन्नगा ते णं महावेदणतरागा, से तेण० गो! एवं वु०, सेसं तहेव (सूत्रं २१२)
'याणमन्तराणं जहा असुरकुमाराण' मित्यादि, यथा असुरकुमारा 'सन्निभूया य असन्निभूया य, तत्थ णं जे सन्नि|भूया ते महावेयणा असन्निभूया अप्पवेयणा' इत्येवमधीता व्यन्तरा अपि तथैवाध्येतव्याः, यतोऽसुरादिषु व्यन्तरान्तेषु देवेष्वसज्ञिन उत्पद्यन्ते, तथा चोक्तं व्याख्याप्रज्ञप्तौ प्रथमशते द्वितीयोद्देशके-"असन्नी णं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु” इति [असंज्ञिनो जघन्येन भवनवासिषु उत्कृष्टेन व्यन्तरेषु] ते चासुरकुमारप्रकरणोक्तयु-18 क्रल्पवेदना भवन्तीत्यवसेयं, यत्तु प्राग् व्याख्यानं कृतं सम्जिनः सम्यग्दृष्टयोऽसचिनस्त्वितरे इति, तदेवमपि
dain Education International
For Personal & Private Use Only
www.jainelibrary.org