SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ 7 प्रज्ञापनाया: मलयवृत्ती. लेश्यापदे उद्देशः ॥३३॥ प्रागुत्तरभवान्तर्मुहूर्तद्वयनिजायुःकालप्रमाणावस्थाना भवति, तथा "जा पम्हाइ ठिई खलु उक्कोसा चेव समयमभहिया। सुक्काएँ जहन्नेणं तेत्तीसुकोस [मुहुत्त मभहिया॥१॥” इति [या पनायाः स्थितिः खलु उत्कृष्टा समयाभ्यधिकैव ।। शुक्लाया जघन्येन त्रयस्त्रिंशत्सागरोपमाणि मुहूर्ताभ्यधिकानि उत्कृष्टा ॥१॥] ततोऽस्मालेश्यास्थितिपरिमाणात् प्रागुक्ताच तृतीयलेश्योद्देशवक्ष्यमाणसूत्रादवसीयते-देवानां नैरयिकाणां च लेश्याद्रव्यपरिणाम उपपातसमयादारभ्याभवक्षयात् भवति इति । पूर्वोत्पन्नश्वासुरकुमारैः प्रभूतानि तीत्रानुभागानि लेश्याद्रव्याणि अनुभूयानुभूय क्षयं नीतानि स्तोकानि मन्दानुभावान्यवतिष्ठन्ते ततस्ते पूर्वोत्पन्ना अविशुद्धलेश्याः पश्चादुत्पन्नास्तु तद्विपर्ययाद्विशुद्धलेश्याः। 'वेयणाए जहा नेरइया' इति वेदनायां यथा नैरयिका उक्तास्तथा वक्तव्याः, तत्राप्यसज्ञिनोऽपि लभ्यमानत्वात् , तत्र यद्यपि वेदनासूत्रं पाठतो नारकाणामिवासुरकुमाराणामपि तथापि भावनायां विशेषः, स चायं-ये सज्ञीभूतास्ते सम्यग्दृष्टित्वात् महावेदनाः चारित्रविराधनाजन्यचित्तसन्तापात् , इतरे तु असञीभूता मिथ्यादृष्टित्वादल्पवेदना इति, 'अवसेसं जहा नेरइयाणं'ति अवशेष क्रियासूत्रमायुःसूत्रं च यथा नैरयिकाणां तथा वक्तव्यं, एतच्च सुगमत्वात् स्वयं परिभावनीयं 'एव'मित्यादि, एवमसुरकुमारोक्तेन प्रमाणेन नागकुमारादयोऽपि तावद्वक्तव्याः यावत्स्तनित- कुमाराः॥ पुढविकाइया आहारकम्मवनलेस्साहिं जहा नेरइया, पुढविकाइया सवे समवेयणा [प०] १, हंतागो ! सवे समवेदणा, से ॥३३८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy