SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ वात्, यदापि लभ्यते तदापि जघन्यपदे एको द्वौ वा उत्कर्षतः सहस्रपृथक्त्वं, उक्तं च - " आहारगाई लोए छम्मासे जा न होंतिवि कयाई । उक्कोसेणं नियमा एवं समयं जहन्नेणं ॥ १ ॥ होंताई जहन्नेणं इक्कं दो तिण्णि पंच व हवंति । उक्कोसेणं जुगवं पुहुत्तमेत्तं सहस्साणं ॥ २ ॥ [ आहारकाणि लोके षण्मासान् यावत् न भवन्त्यपि - कदाचित् । उत्कृष्टतो नियमात् एकं समयं जघन्येन ॥ १ ॥ भवन्त्यपि जघन्येन एकं द्वे त्रीणि पञ्च वा भवन्ति । उत्कृष्टेन युगपत् पृथक्त्वमात्रं सहस्राणां ॥ २ ॥ ] ततो यदा आहारकशरीरकायप्रयोगी आहारकमिश्रशरीरकायप्रयोगी चैकोऽपि न लभ्यते तदा बहुवचनविशिष्टत्रयोदशपदात्मक एको भङ्गः, त्रयोदशपदानामपि सदैव बहुत्वेनावस्थितत्वात् यदा त्वेक आहारकशरीरकायप्रयोगी लभ्यते तदा द्वितीयः, तेऽपि यदा बहवो लभ्यन्ते तदा तृतीयः, एवमेव आहारक मिश्रशरीरकायप्रयोगिपदेनापि द्वौ भङ्गौ लभ्येते इत्येकयोगे चत्वारो भङ्गाः, द्विकसंयोगेऽपि प्रत्येकमेकवचनबहुवचनाभ्यां चत्वार इति सर्वसङ्ख्यया जीवपदेन नव भङ्गाः, नैरयिकपदे सत्यमनः प्रयोगिप्रभृतीनि वैक्रियमिश्रशरीरकायप्रयोगिपर्यन्तानि सदैव बहुवचनेन दश पदान्यवस्थितानीत्येको भङ्गः, अथ वैक्रियमिश्रशरीरकायप्रयोगिणः सदैव कथं लभ्यन्ते ?, द्वादशमौहूर्त्तिकगत्युपपातविरहकालभावात् उच्यते, उत्तरवैक्रिया|पेक्षया, तथाहि - यद्यपि द्वादशमौहूर्त्तिको गत्युपपातविरहकालस्तथापि तदानीमपि उत्तरवैक्रियारम्भिणः संभवन्ति, उत्तरवैक्रियारम्भे च भवधारणीयं वैक्रियमिश्रं तद्बलेनोत्तर वैक्रियारम्भात्, भवधारणीयप्रवेशे चोत्तरवैक्रिय Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy