________________
प्रज्ञापनायाः मलय०वृत्ती.
॥३१६॥
वा' इति, सर्वार्थसिद्धस्त्वनन्तरभवे नियमतः सिद्ध्यति ततस्तस्याजघन्योत्कृष्टं पुरस्कृता अष्टाविति । बहुवचनचिन्तायां १५ इन्द्रिनैरयिकसूत्रे बद्धानि द्रव्येन्द्रियाण्यसङ्ख्येयानि, नैरयिकाणामसङ्ख्यातत्वात् , एवं शेषसूत्रेष्वप्युपयुज्य वक्तव्यं, नवरं यपदे मनुष्यसूत्रे 'सिय संखेजा सिय असंखेजा' इह सम्मूछिममनुष्याः कदाचित् सर्वथा न सन्ति, तदन्तरस्य चतु
उद्देशः २ विशतिमुहूर्त्तप्रमाणस्य प्रागभिधानात् , तत्र यदा पृच्छासमये सर्वथा न सन्ति तदा सङ्ख्येयानि, गर्भजमनुष्याणां सङ्ख्येयत्वात् , यदा तु सम्मूञ्छिमा अपि सन्ति तदा असङ्ख्येयानि, सर्वार्थसिद्धमहाविमानदेवाः सङ्ख्ययाः, बादरत्वे महाशरीरत्वे च सति परिमितक्षेत्रवर्त्तित्वात् , ततो बद्धानि पुरस्कृतानि वा तेषां द्रव्येन्द्रियाणि सङ्ख्येयानि, 'एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते' इत्यादि, 'कस्सइ अस्थि कस्सइ नत्थि' इति यो नरकादुत्तो भूयोऽपि नैरयिकत्वं नावाप्स्यति तस्य न भवन्ति, यस्त्ववाप्स्यति तस्य सन्ति, सोऽपि यद्येकवारमागामी ततोऽष्टौ द्वौ वारौ चेत् तर्हि षोडश यदि त्रीन् वारान् ततश्चतुर्विंशतिः सङ्ख्येयान् वारान् आगामिनः सङ्ख्येयानीत्यादि,मनुष्यत्वचिन्तायां 'कस्सइ अस्थि कस्सइ णत्थि' इति न वक्तव्यं, मनुष्येष्वागमनस्यावश्यंभावित्वात् , ततो जघन्यपदेऽष्टौ उत्कर्षतोऽनन्तानीति वक्तव्यं, विजयवैजयंतजयन्तापराजितचिन्तायां अतीतानि द्रव्येन्द्रियाणि न सन्ति, कस्मादिति चेत् ?, उच्यते,
॥३१॥ इह विजयादिषु चतुर्यु गतो जीवो नियमात् तत उदृत्तो न जातुचिदपि नैरयिकादिपञ्चेन्द्रियतिर्यपर्यवसानेषु तथा|| व्यन्तरेषु ज्योतिष्केषु च मध्ये समागमिष्यति तथाखाभाव्यात्, मनुष्येषु सौधर्मादिषु चागमिष्यति, तत्रापि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org