________________
प्रज्ञापनया: मलयवृत्ती.
१५इन्द्रियपदे उद्देशः २
॥३०९॥
"इंदियउवचय'इत्यादि, प्रथमत इन्द्रियाणामुपचयो वक्तव्यः, उपचीयते-उपचयं नीयते इन्द्रियमनेनेत्युपचयःइन्द्रियप्रायोग्यपुद्गलसङ्ग्रहणसम्पत्, इन्द्रियपर्याप्तिरित्यर्थः, तदनन्तरं निवर्त्तना वक्तव्या, निवर्तना नाम बाह्याभ्य-IN न्तररूपा या निर्वृत्तिः-आकारमात्रस्य निष्पादनं, तदनन्तरं सा निवर्तना कतिसमया भवतीति प्रश्नेऽसङ्ख्येयाः समयास्तस्या भवेयुरिति निर्वचनं वाच्यं, तत इन्द्रियाणां लब्धिः-तदावरणकर्मक्षयोपशमरूपा वक्तव्या, तत उपयोगाद्धा, तदनन्तरमल्पबहुत्वे चिन्त्यमाने पूर्वस्याः पूर्वस्याः उत्तरोत्तरा उपयोगाद्धा विशेषाधिका वक्तव्या, 'ओगाहणा'इति अवग्रहणं-परिच्छेदो वक्तव्यः, स च परिच्छेदोऽपायादिभेदादनेकधेति तदनन्तरमपायो वक्तव्यः, तत ईहा, तदनन्तरं व्यञ्जनावग्रहः, चशब्दस्यानुक्तार्थसमुचायकत्वादावग्रहश्च वक्तव्यः, तदनन्तरं द्रव्येन्द्रियभावेन्द्रियसूत्रं, ततोऽतीतबद्धपुरस्कृतानि द्रव्येन्द्रियाणि तदनन्तरंभावेन्द्रियाणि च चिन्तनीयानि । तत्र 'यथोद्देशं निर्देश'इति न्यायात् प्रथमत इन्द्रियोपचयसूत्रमाह-'कइविहे णं भंते ! इंदियउवचए पण्णत्ते'इत्यादि सुगम,नवरं 'जस्स जइ इंदिया' इत्यादि, यस्य | नैरयिकादेर्यति-यावन्ति इंद्रियाणि सम्भवन्ति तस्य ततिविधः-तावत्प्रकार इन्द्रियोपचयो वक्तव्यः, तत्र नैरयिकादीनां | स्तनितकुमारपर्यवसानानां पञ्चविधः पृथिव्यप्तेजोवायुवनस्पतीनामेकविधो द्वीन्द्रियाणां द्विविधः त्रीन्द्रियाणां त्रिविघश्चतुरिन्द्रियाणां चतुर्विधः, तिर्यपञ्चेन्द्रियमनुष्यन्यन्तरज्योतिष्कवैमानिकानां पञ्चविधः, क्रमश्चैवं-स्पर्शनरसन-8 घाणचक्षुःश्रोत्राणीति, एवमिन्द्रियनिर्वर्तनादिसूत्राण्यपि वेदितव्यानि, प्रायः सुगमत्वात् , नवरं 'इंदियउवओगद्धा'
॥३०९॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org