SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ प्तिा उच्छासपर्याप्त्याऽपर्याप्ता एव म्रियन्ते, ततो न स्पष्टतरवर्णादिविभाग इत्यसंप्राप्ता इत्युक्तं, ननु कस्मादुच्छासपर्याप्त्यैवापर्याप्ता नियन्ते नार्वाक् शरीरेन्द्रियपर्याप्तिभ्यामपर्याप्ता अपि ?, उच्यते, यस्मादागामिभवायुर्ववा नियन्ते सर्व एव देहिनो नावदा, तच्च शरीरेन्द्रियपर्याप्तिभ्यां पर्याप्तानां बन्धमायाति नान्यथेति, अन्ये तु व्याचक्षते-सामान्यतो वर्णादीनसंप्राप्ता इति, तच्च न युक्तं, यतः शरीरमात्रभाविनो वर्णादयः, शरीरं च शरीरपर्याप्त्या सजातमिति ।। 'तत्थ णं जे ते पजत्तगा'इत्यादि, तत्र ये ते पर्याप्तकाः-परिसमाप्तखयोग्यसमस्तपर्याप्सयः, एतेषां 'वर्णादेशेन' वर्ण1 भेदविवक्षया एवं गन्धादेशेन रसादेशेन स्पर्शादेशेन 'सहस्राग्रशः' सहस्रसङ्ख्यया विधानानि-भेदाः, तद्यथा-वर्णाः । कृष्णादिभेदात्पञ्च गन्धौ सुरभीतरभेदावी रसाः तिक्तादयः पञ्च स्पर्शा मृदुकर्कशादयोऽष्टी, एकैकस्मिंश्च वर्णादौ तारतम्यभेदेनानेकेऽवान्तरभेदाः, तथाहि-भ्रमरकोकिलकजलादिषु तरतमभावात् कृष्णकृष्णतरकृष्णतमेत्यादिरूपतया अनेके कृष्णभेदाः, एवं नीलादिष्वप्यायोज्यं, तथा गन्धरसस्पर्शेष्वपि, तथा परस्परं वर्णानां संयोगतो धूसरकबुंरत्वादयोऽनेकसङ्ख्या भेदाः, एवं गन्धादीनामपि परस्परं गन्धादिभिः समायोगाद् , अतो भवन्ति वर्णाद्यादेशैः सहसाग्रशो भेदाः, 'सङ्घजाई जोणिप्पमुहसयसहस्साईति सङ्खयेयानि योनिप्रमुखाणि-योनिद्वाराणि शतसहस्राणि, तथाहि-एकैकस्मिन् वर्णे गन्धे रसे स्पर्श च संवृता योनिः पृथिवीकायिकानां, सा पुनस्विधा-सचित्ता अचित्ता मिश्रा | च, पुनरेकैका त्रिधा-शीता उष्णा शीताष्णा, शीतादीनामपि प्रत्येकं तारतम्यभेदादनेकभेदत्वं, केवलमेवं विशि Jain Education Ternational For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy